Book Title: Dharmottar Pradip
Author(s): Dalsukh Malvania
Publisher: Kashiprasad Jayswal Anushilan Samstha

View full book text
Previous | Next

Page 296
________________ 3.107.] असाधारणानकान्तिकनिरूपणम् / 221 तस्माद् यदि नाम सात्मकमवस्तु निरात्मकं च वस्तु, तथापि 'तयोर्न प्राणादेरन्वयव्यतिरेकयोरभावनिश्चयः / एकत्र वस्तुन्येकस्य वस्तुनो युगपद्भावाभावविरोधात् तयोरभावनिश्चयायोगात् / न च प्रतिवाद्यनुरोधात् सात्मकानात्मके वस्तुनी सदसती। किन्तु प्रमाणानुरोधाद् / इत्युभे संदिग्धे। ततस्तयोः प्राणादिमत्त्वस्य सदसत्त्वसंशयः / / यत एव क्वचिदन्वय-व्यतिरेकयोन भावनिश्चयो नाप्यभावनिश्चयः, तत एवान्वयव्यतिरेकयोः संदेहः / यदि तु क्वचिद प्यन्वय-व्यतिरेकयोरेकस्याप्यभावनिश्चयः स्यात्, स एव द्वितीयस्य भावनिश्चय इत्यन्वयव्यतिरेकसंदेह एव न स्यात् / यतश्च न क्वचिद्धावाभावनिश्चयस्तत एवान्वयव्यतिरेकयोः संदेहः। संदेहाच्चानकान्तिक:९ / / परिच्छिद्यत इत्याह-तथा चेति नीरूपताव्यवच्छेदेन रूपस्य प्रतिष्ठिताकारवतः परिच्छेदप्रकारे सति / ततोऽन्योन्याभावरूपत्वादनयोः / ननु बौद्धानां सात्मकं नाम नास्त्येवेत्यवस्तु। सन्मात्रं तु निरात्मकमतो वस्तु / तत्र वस्तुनि] निरात्मको (के) हेतोरन्वयव्यतिरेकयोरभावनिश्चयो मा भूत्सात्मके त्ववस्तुनि स कथं न स्यादित्याशङक्योपसंहारव्याजेनाह तस्मादिति / यस्माद् विधिप्रतिषेधयोरेकप्रतिषेधोऽपरविधिनान्तरीयकस्तस्मात् / कथं न भावनिश्चयस्तयोरित्याशङक्योपपत्तिमाह-एकत्रेति / तयोरन्वयव्यतिरेकयोर्भावाभावात्मनोरभावनिश्चयस्यायोगादनुपपत्तिः / कथमयोग इत्याहएकस्येति। कालभेदे कि न युज्यते इत्याह-युगपदिति / इदं च प्रतिवाद्यभ्युपगमबलात्सात्मकानात्मकयोः सदसत्त्वमभ्युपगम्योक्तम् / तदेव तु न युज्यत इति दर्शयन्नाहन चेति / चो वक्तव्यान्तरसमुच्चये। प्रकरणादिह प्रतिवादी बौद्धस्तदनुरोधवशादिष्ट्यनिष्टिवशात्सात्मकमसन्निरात्मकं सदिति यथायोगं योजनीयम् / एवं वास्तवमनुमानं स्यात् न वस्तुबलप्रवृत्तमिति भावः / यद्येवं ते, सदसती न भवतः कथं नामेत्याह-किन्त्विति / प्रमाणं चेदं नियतं वर्तते / आत्मन्येव च विवादवृत्तेरन्याऽपि (न्यत्रापि? )सात्मकत्वमनात्मकत्वेन (कत्वं वा न ?) व्यवतिष्ठत इति भावः / इतिस्तस्मात् / उभे सात्मकत्वानात्मकत्वे। यत एवं ततः कारणात्सात्मकानात्मकयोः सदसत्त्वयोः संशयः / कस्येत्याकाङक्षायामुक्तम्-प्राणादिमत्त्वस्येति / 1 तथापि न तयोः A. B. P. H. E. N. 2 एकवस्तु० A. B. P. H. E. N. 'एकवस्तु० A. B. P. H. E. N. 4 निश्चययोगात् B, 5 सदसत्त्वानिश्चयः C. 6 नाभावनि० C. 7 क्वचिदन्वय० C. D यतस्तु C. D. 9 कान्तिक इत्याह / E. .

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380