Book Title: Dharmottar Pradip
Author(s): Dalsukh Malvania
Publisher: Kashiprasad Jayswal Anushilan Samstha

View full book text
Previous | Next

Page 317
________________ 242 तृतीयः परार्थानुमानपरिच्छेदः / - [ 3.126. इह यद्यपि कृतकत्वेन घटसदृशः शब्दस्तथापि नानित्यत्वेनापि सदृशः प्रत्येतुं शक्यतेऽ१. तिप्रसङ्गात्'। यदि तु कृतकत्वम् अनित्य स्वभावं विज्ञातं भवत्येवं कृतकत्वादनित्यत्वप्रतीतिः स्यात् / तस्माद् यत् कृतकं तदनित्यमिति कृतकत्वमनित्यत्वे नियतमभिधाय नियमसाधनायान्वयवाक्यार्थप्रतिपत्तिविषयो दृष्टान्त उपादेयः। स च प्रदर्शितान्वय एव / अनेन स्वन्वयवाक्यमनुक्त्वैव दृष्टान्त उपात्तः। ईदृशश्च साधर्म्यमात्रेणवोपयोगी। न च साधर्म्यात साध्यसिद्धिः। अतोऽन्वयार्थो दृष्टान्तस्तदर्थश्चानेन नोपात्तः। साधार्थश्चोपात्तो निरुपयोग ननु घटोपदर्शनेन कृतकत्वेन तावद् घटसदृशः शब्दो दर्शितः / तथा चानित्यत्वेनापि सदशो दर्शितस्ततश्च व्याप्तिर्दर्शितैवेत्याह-इहेति / इहानित्यत्वसिद्धिप्रस्तावे। कुतस्तथाप्रत्येतुमशक्य इत्याह-अतिप्रसङ्गादिति / मूर्तत्वादि (दे) रपि सादृश्यागम(सादृश्यावगमात्) प्रसक्ति (क्ते)रिष्टं धर्ममतिक्रान्तः प्रसङ्गोऽतिप्रसङ्गः तस्मात् / न तर्हि कृतकत्वादनित्यत्वं कदा- . चिदपि प्रत्येतव्यमित्याह-यदि त्विति / तुरिमामवस्थां विशेषवतीं दर्शयति / यदि कृतकत्वानवादपूर्विका(पूर्वक)विधानेनार्थान्तरत्वे सति न नित्यत्वस्वभावं कृतकत्वं प्रतीतं भवत्येवं तत्स्वाभाव्येन प्रतिपत्ती कृतकत्वादनित्यत्वप्रतीतिः स्यात् / यतः कृतवत्वस्यानित्यत्वस्वभावा वगमात्ततस्तत्प्रतीतिर्नान्यथा तस्मात् हेतोः / अन्वयवाक्यस्य साध्यनियतत्वं साधनस्यार्थोऽभिधेयः, तत्प्रतिपत्तिविषयस्तत्प्रदर्शन इत्यर्थः / अन्वयवाक्यार्थप्रतिपत्तिविषयोऽपि दृष्टान्तो यद्यप्रदर्शितान्वयस्तदा सोऽपि निरुपयोगः किमित्युपादेय इत्याह–स चेति / चोऽवधारणे यस्मादर्थे वा। अनेन कथं नामायमुपात्तो येनैवमभिधीयत इत्याह–अनेनेति / अनेन वादिना। विशेषार्थः / अन्वयप्रतिपादकं वाक्यमन्वयवाक्यम् / तदनुक्त्वैव / अथैवमुपात्तोऽपि यापयुज्यते तदा का क्षतिरित्याह-ईदृशश्चेति / चकारोऽस्येमामवस्थां भेदवतीमाह / समानः प्रकरणाद् घटेन सदृशो धर्मो यस्यासौ सधर्मा। तस्य भावः साधर्म्यम् / तदेव तन्मात्रम् / मात्रग्रहणेन विशिष्टं साधर्म्यमपाकरोति / तेनैवकारेण निराकृतनिरासमेव द्रढयति / साधर्म्यप्रदर्शनमात्रेणवायमुपयोगवानित्यर्थः / अर्थतत्पददर्शितात्साधादपि यदि साध्यं सिद्ध्यति तदा कथमयमनुपयुक्त इत्याहन चेति / चोऽवधारणे यस्मादर्थे वा। एवं व्रवतोऽयं भावः-अनेन खलु साधर्म्य प्रदर्शनीयम्। कृतकत्वेनैव च साधर्म्य प्रदर्यायञ्चरितार्थो भविष्यति / न च कृतकत्वेन घटसाधर्म्य शब्दस्यावगतेऽप्यनित्यत्वेनापि तत्साधावगमोऽवश्यंभावीति शक्यमभिधातुम् / मूर्त्तत्वादिनापि सादृश्यावगमेऽस्यानिवार्यत्वप्रसङ्गादिति / यतः साधर्म्यमात्रान्न साध्यसिद्धिरतः कारणात् / अन्वयोऽन्वीयमानत्वं साधनस्य साध्येन सोऽर्थः प्रयोज[80a]नं यस्य स तथा न साधर्म्यमात्रप्रदर्शनार्थ इत्यर्थात् / अनेनाप्यन्वयार्थ एवायमुपात्त इत्याह-तदर्थश्चेति / चो यस्मादर्थे / सोऽन्वयोऽर्थो यस्य स तथा। अनेन वादिना। किमर्थस्तमुनेनायमुपात्त इत्याह-साधर्म्यति / चो यस्मादर्थे / 2 पाक्योऽपि प्राप्तः--टि. 4 ज्ञातं-C. 'शक्योऽति. A. P. H. E.N. 3 अनित्यत्व A. C. P. H. E. N. ५०त्येव कृ०.C.. ...त्यत्वनिय० A.P.H. E. N.

Loading...

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380