Book Title: Dharmottar Pradip
Author(s): Dalsukh Malvania
Publisher: Kashiprasad Jayswal Anushilan Samstha

View full book text
Previous | Next

Page 320
________________ 3.130.] दृष्टान्तदोषाः / 245 साध्यमाविर्येषां तानि साध्यादीनि साध्यसाधनोभयानि। तेषामव्यतिरेको निवृत्त्यभावः। स येषामस्ति ते साध्याद्यव्यतिरेकिणः। ते चोदाहताः॥ अपरानुदाहर्तुमाह तथा संदिग्धसाध्यव्यतिरेकादयः। यथाऽसर्वज्ञाः कपिलादयोऽनाप्ता वा अविद्यमानसर्वज्ञताप्ततालिङ्गभूतप्रमाणातिशयशासनत्वादिति / अत्र वैध र्योदाहरणम् यः सर्वज्ञ प्राप्तो वा स ज्योतिर्ज्ञानादिकमुपदिष्टवान् / 3 यथा- ऋषभवर्धमानादिरिति / 'तत्रासर्वज्ञतानाप्ततयोः साध्यधर्मयोः संदिग्धो व्यतिरेकः // 130 // तथेति / . साध्यस्य व्यतिरेकः साध्यव्यतिरेकः / संदिग्धः साध्यव्यतिरेको यस्मिन् स संदिग्धसाध्यव्यतिरेकः / स आदिर्येषां ते तथोक्ताः / संदिग्धसाध्यव्यतिरेकमुवाहर्तुमाह-यथेति / असर्वज्ञा इत्येकं साध्यम् / अनाप्ता अक्षीणदोषा इति द्वितीयम् / कपिलादय इति धर्मी / अविद्यमानसर्वज्ञतेत्यादि हेतुः / सर्वज्ञता च आप्तता च तयोलिङ्गभूतः प्रमाणातिशयो लिङ्गात्मकः प्रमाणविशेषः / अविद्यमानः सर्वज्ञताप्ततालिङ्गभूतः प्रमाणातिशयो यस्मिन् तत् तथोक्तं शासनम् / तादृशं शासनं येषां ते तथोक्ताः। तेषां भावस्तत्वम् / तस्मात् / प्रमाणातिशयो ज्योतिर्ज्ञानोपदेश इहाभिप्रेतः। यदि हि कपिलादयः सर्वज्ञा आप्ता वा स्युस्तदा ज्योतिर्ज्ञानादिकं कस्मान्नोपदिष्टवन्तः ? न चोपदिष्टवन्तः / तस्मान्न सर्वज्ञा आप्ता वा / अत्र प्रमाणे वैधर्योदाहरणम् / यः सर्वज्ञ आप्तो वा स ज्योतिर्ज्ञानादिकं सर्वज्ञताप्ततालिङ्गभूतमुपदिष्टवान् / यथा ऋषभो वर्धमानश्च तावादी यस्य स ऋषभ-वर्धमानादिदि प्रकरणात्क्षीणदोषत्वमाप्तत्वलक्षणमस्य विवक्षितमिति मत्वा अनाप्ता अक्षीणदोषा इति व्याचष्टे / कपिलः सांख्यदर्शनकारो मुनिः / आदिशब्देन गौतमादे: सङग्रहः / शासनं मार्गस्तत्प्रणीतशास्त्रमिति यावत् / ननु सेषामपि शासने लिङ्गात्मकः प्रमाणातिशयोऽनेकोऽस्त्येव। तत्कथं हेतुरयमसिद्धो न भवतीत्याह-प्रमाणातिशय इति / ज्योतिषां ग्रहनक्षत्राणां ज्ञानं तस्योपदेशः / ज्योतिर्ज्ञानस्योपलक्षणत्वाज्ज्योतिर्ज्ञानाधुपदेश इत्यवगन्तव्यम् / तदयं समुदायार्थ:-यस्मात्तैोतिर्ज्ञानमन्यातीन्द्रियज्ञानं च स्वशासने नोपदिष्टं तस्मात्ते न तथारूपा इति। यदि हीत्यादिनैतदेव दर्शयति / 1 ०रेको वृत्त्य० A.P.H.N. ०रेको निवृत्ता (त्य) भाव: B. 2 वैधhणोदा० C. 3 तद्यथा B.D.P.H.E.N. 4 वृषभ-C. 5 रिति वैधर्योदाहणादसर्व० C 6 कपिलादयः-टि०

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380