________________ 144 द्वितीयः स्वार्थानुमानपरिच्छेदः / [2.45 ननु च कार्यानुपलब्ध्यादिषु कारणादीनामदृश्यानामेव 'निषेधः, दृश्यनिषेधे स्वभावा'नुपलब्धिप्रयोगप्रसंगात् / तथा च सति न तेषां दृश्यानुपलब्धेनिषेधः। तत् कथमेषां प्रयोगाणां दृश्यानुपलब्धावन्तर्भाव इत्याहसर्वत्र 'चास्यामभावव्यवहारसाधन्यामनुपलब्धौ येषां स्वभावविरुद्धादीनामुपलब्ध्या' कारणादीनामनुपलब्ध्या च प्रतिषेध उक्तस्तेषामुपलब्धिलक्षणप्राप्ता नामेवोपलब्धिरनुपलब्धिश्च वेदितव्या // 45 // - सर्वत्र चेत्यादि। अभावश्च 'तद्वयवहारश्च अभावव्यवहारौ। स्वभावानुपलब्धावभावव्यवहारः साध्य / शिष्टेष्वभावः। तयोः साधन्यामनुपलब्धौ। सर्वत्र चेति चशब्दो हिशब्दस्यार्थे / यस्मात् सर्वत्रानुपलब्धौ येषां प्रतिषेध उक्तस्तेषामुपलब्धिलक्षणप्राप्तानां 1 दृश्यानामेव 1 प्रतिषेधस्तस्माद् दृश्यानुपलब्धावन्तर्भावः / कुत एतद् दृश्यानामेवेत्याह-स्वभावेत्यादि / अत्रापि चकारो हेत्वर्थः। यस्मात स्वभावविरुद्ध आदिर्येषां तेषामुपलब्ध्या, कारणमादिर्येषां तेषामनुपलब्ध्या प्रतिषेध उक्तस्तस्माद् दृश्यानामेव प्रतिषेध इत्यर्थः / यदि नाम स्वभावविरुद्धाधुपलब्ध्या कारणाद्यनुपलब्ध्या 2 च प्रतिषेध उक्तस्तथापि कथं दृश्यानामेव प्रतिषेध इत्याह-उपलब्धिरित्यादि। अत्रापि चकारी हेत्वर्थः। यस्माद ये विरोधिनः, व्याप्यव्यापकभूताः, कार्यकारणभूताश्च ज्ञातास्तेषामवश्यमेवोपलब्धिः, उपलब्धिपूर्वा चानुपलब्धिर्वेदितव्या ज्ञातव्या / उपलब्ध्यनुपलब्धी च द्वे येषां स्तस्ते दृश्या एव / तस्मात् स्वभावविरुद्धायुपलब्ध्या कारणाद्यनुपलब्ध्या चोपलब्ध्यनुपलब्धिमतां विरुद्धादीनां प्रतिषेधः क्रियमाणो दृश्यानामेव कृतो द्रष्टव्यः / ___ केचित्पुनरेवं व्याचक्षते-स्वयमित्यादिना ग्रन्थेन वार्तिककृतेदमुक्तम्-स्वभावादीनामनुपलब्ध्या विरुद्धादीनाञ्चोपलब्ध्या यथायोगमभावं तद्व्यवहारं च प्रयोगनिरपेक्ष एवं प्रतिपत्ता प्रत्येति / न केवलं प्रयोगाभ्यासात् प्रतिपत्तिसमय एव प्रयोगमुच्चारयति / न तु ततोऽपूर्वमवगच्छतीतरथा प्रतिनियतशब्दोच्चारणं न भवेदिति / अनेनोपायनेति चोपाय इहोपायस्तथाशब्दोच्चारणक्रमस्तेनेति वर्णयन्ति। एतेन चानुपलब्धिप्रयोगसमर्थनन्यायेन / 1 .मेव प्रतिषेधः A. P. H. E. N. 2 ०नपलम्भप्र. A. B. P.H. E. N. 3 अदृश्यानां निषेधे सति-टि० 4 कारणादीनाम्-टि० 5 चास्यामभावाभावव्यव० E. 6 विरुद्धानामुप० C... 7 'सर्वत्र चेत्यादि' नास्ति H. N. ( अभावश्च तस्य च व्यवहारोऽभावव्य० A. P. H. E. 9 लब्धौ सत्यां-B. H. L. दृश्यमानानामेव B. 1. मेव स प्रति० A. P. H. E. N. 12 कारणानुपलब्ध्या-C. १७'ज्ञातव्या' नास्ति A. B. P. H. E. N. ..