________________ 180 तृतीयः परार्थानुमानपरिच्छेदः / [3.46. कुत एतदित्याह तदधिकरणत्वाद्विवादस्य // 46 // १तदिति सोऽर्थोऽधिकरणम् आश्रयो यस्य स तदधिकरणो विवादः। तस्य भाबस्तत्त्वम् / तस्मादिति / एतदुक्तं भवति-यस्माद्विवादं निराकर्तुमिच्छता वादिना साधनमुमन्यस्तं तस्माद् यद् अधिकरणं विवादस्य तदेव साध्यम् / यतो विरुद्धं वावमपनेतं साधनमपन्यस्तं तच्चेत न साध्यं किमिदानी जातिनियतं किंचित् साध्यं स्यादिति // अनुक्तमपि परार्थानुमाने साध्यमिष्टम् / तदुदाहरति-- ___यथा परार्थाश्चक्षुरादयः संघातत्वाच्छयनासनाद्यङ्गवदिति / अत्रात्मार्था इत्यनुक्तावप्यात्मार्थता साध्या / 5 तेन नोक्तमात्रमेव साध्यम्-इत्युक्तं भवति // 47 // परार्था इति / चक्षुरादिर्येषां श्रोत्रादीनां ते चक्षुरादय इति धर्मी। परस्मायिमे . परार्था इति साध्यं पारार्थ्यम् / संघातत्वादिति हेतः। व्याप्तिविषयप्रदर्शनं च शयनासनाद्यङ्गवदिति। शयनमासनं च ते आदी यस्य तच्छयनासनादि पुरुषोपभोगासंघातरूपम् / तद्वदत्र प्रमाणे यदप्यात्मार्थाश्चक्षुरादय इत्यात्मार्थता नोक्ता, १०अनुक्तावप्यात्मार्थता साध्या। ___ अनुक्तोऽपि तु वचनेन / वचनेन साक्षादभिधाव्यापारविषयत्वमनापादितोऽपि / तुर्विशेषदीपने। साध्यः साध्य एव। कुत इत्याह-सामयॊक्तत्वात्तस्य बुद्धिस्थस्यात्मादेः। . एतदुक्तं भवति–परार्थानुमाने उक्तोऽर्थः साध्यः / उक्तश्च प्रकाशित उच्यते / प्रकाश्यमानता च साक्षादभिधाव्यापारविषयतया च सामर्थ्यगम्यतया च / उक्तम ( उक्तता)तु प्रकाशितताख्या द्वयोरप्यविशिष्टेति // कुत एतदिति सामोक्तत्वमिति हेतोराह वार्तिककारः / .. 'तदित्यादि तदिति A. B. C. D. P. H. E. N. .. 2 जगति नियतम् -A. B.C. D. P. H. E. N. .. ..मिष्टमुदाहरति-B. साध्यं दृष्टमुदाह. C. D. 4 ०दिति। आत्मार्था इत्यनुत्था (क्ता)प्यात्मार्थता साध्यते तेन-C. ५साध्या। अनेन B. P. H. E. ६'ते' नास्ति B. 7 'च' नास्ति -A. B. D. P. H. E. N. आदिर्यस्य D. 9 तद्वदत्र यत्प्रमाणे-A. B. P. H. 0 नोक्ताप्या० B. अनुक्ताप्या-A.C. D. P. H. E.N.