________________
ला विशेषा घटस्वरूपा न भवन्ति, ततः शिवकादिकाले कथं घटो दृश्यतामिति ?, किंच-अन्त्यसमय एव घटः समारब्धः १,८
तत्रैव च यद्यसौ दृश्यते तदा को दोषः १, एवं च क्रियमाण एव कृतो भवति, क्रियमाणसमयस्य निरंशत्वात् , यदि च संप्रतिसमये क्रियाकालेऽप्यकृतं वस्तु तदाऽतिक्रान्ते कथं क्रियतां कथं वा एष्यति ?, क्रियाया उभयोरपि विनष्टत्वानुत्पन्नत्वेनासत्त्वादसम्बध्यमानत्वात् , तस्मात् क्रियाकाल एव क्रियमाणं कृतमिति, आह च-"थैराण मयं नाकयमभावओ कीरए खपुप्फंव । अहव अकयंपि कीरइ कीरउ तो खरविसाणंपि ॥१॥ निच्चकिरियाइ दोसा नणु तुल्ला असइ कहतरया वा । पुवमभूयं च न ते दीसइ किं खरविसाणंपि ? ॥२॥ पइसमउप्पन्नाणं परोप्परविलक्खणाण सुबहूणं । दीहो किरियाकालो जइ दीसइ किं च कुंभस्स ॥ ३ ॥ अन्नारंभे अन्नं किह दीसउ ? जह घडो पडारंभे । सिवगादओ न कुंभो किह दीसउ सो तदद्धाए? ॥४॥ अंते च्चिय आरद्धो जइ दीसइ तमि चेव को दोसो ? । अकयं च संपइ गए किहु कीरउ किह व एसंमि? ॥५॥” इत्यादि बहु वक्तव्यं तच्च विशेषावश्यकादवगन्तव्यमिति । 'छउमत्थावक्कमणेणं'ति छद्म
१ खपुष्पमिवाकृतं न क्रियतेऽभावादिति स्थविरमतम् । अथ चाकृतमपि क्रियते तदा खरविषाणमपि क्रियताम् ॥ १ ॥ नित्यक्रियादयो | दोषा ननु तुल्या असति कष्टतरका वा । खरविषाणमपि पूर्वमभूतं त्वया किं न दृश्यते ॥२॥ प्रतिसमयोत्पन्नानां सुबहूनां परस्परविल
क्षणानां क्रियाणां कालो दी| यदि दृश्यते कुम्भस्य किम् ? ॥३॥ अन्यारम्भेऽन्यत् कथं दृश्यताम् ! यथा पटारम्भे घटः । शिवकादयो न | कुम्भो दृश्यतां कथं स तत्काले !॥ ४ ॥ अन्त एव यद्यारब्धोऽन्त एव यदि दृश्यते को दोषः । वर्तमानेऽकृतं च चेत्कथं अतीते क्रियता ? कथं चैष्यति काले ! भविष्यति ॥ ५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org