Book Title: Bhagwati sutram Part 02
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः २
॥६४७॥
| प्रत्यागच्छता पञ्चदशतापसशतानि प्रब्राजितानि समुत्पन्नकेवलानि च श्रीमन्महावीरसमवसरणमानीतानि तीर्थप्रणामकर| णसमनन्तरं च केवलिपर्षदि समुपविष्टानि, गौतमेन चाविदिततत्केवलोत्पादव्यतिकरेणाभिहितानि यथा - आगच्छत भोः साधवः ! भगवन्तं वन्दध्वमिति, जिननायकेन च गौतमोऽभिहितो यथा - गौतम ! मा केवलिनामाशातनां कार्षीः, ततो गौतमो मिथ्यादुष्कृतमदात्, तथा यानहं प्रत्राजयामि तेषां केवलमुत्पद्यते न पुनर्मम ततः किं तन्मे नोत्पत्स्यत एवेति विकल्पांदधृतिं चकार, ततो जगद्गुरुणा गदितोऽसौ मनःसमाधानाय, यथा गौतम ! चत्वारः कटा भवन्ति - सुम्बकटो | विदलकटश्चर्मकटः कम्बलकटश्चेति, एवं शिष्या अपि गुरोः प्रतिबन्धसाधर्म्येण सुम्बकटसमादयश्चत्वार एव भवन्ति, तत्र त्वं मयि कम्बलकटसमान इत्येतस्यार्थस्य समर्थनाय भगवता तदाऽभिहितमिति ॥ एवं भाविन्यामात्मतुल्यतायां भगव - ताऽभिहितायां 'अतिप्रियमश्रद्धेय 'मितिकृत्वा यद्यन्योऽप्येनमर्थं जानाति तदा साधुर्भवतीत्यनेनाभिप्रायेण गौतम एवाह
जहा णं भंते ! वयं एयमहं जाणामो पासामो तहा णं अणुत्तरोववाइयावि देवा एयमहं जा० पा० १, हंता गोयमा ! जहा णं वयं एयमहं जाणामो पासामो तहा अणुत्तरोववाइयावि देवा एयमहं जा० पा०, से केणद्वेणं जाव पासंति ?, गोयमा ! अणुत्तरोववाइया णं अणंताओ मणोदववग्गणाओ लद्वाओ पत्ताओ अभि समन्नागयाओ भवंति से तेणट्टेणं गोयमा ! एवं बुच्चइ जाव पासंति (सूत्रं ५२२ ) ॥
'जहा ण मित्यादि, 'एयमहं 'ति 'एतमर्थम्' आवयोर्भावितुल्यतालक्षणं 'वयं जाणामो त्ति यूयं च वयं चेत्येकशेषाद्वयं तत्र यूयं केवलज्ञानेन जानीथ वयं तु भवदुपदेशात् । तथाऽनुत्तरोपपातिका अपि देवा एनमर्थं जानन्तीति ? प्रश्नः,
Jain Education International
For Personal & Private Use Only
१४ शतके ७ उद्देशः अनुत्तराणां तुल्यताज्ञानं सू ५२२
॥६४७॥
www.jainelibrary.org

Page Navigation
1 ... 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664