Book Title: Bhagwati sutram Part 02
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 647
________________ तथा न्यग्रोधपरिमण्डलमपीत्यर्थः, न्यग्रोधो-वटवृक्षस्तद्वत्परिमण्डलं नाभीत उपरि चतुरस्रलक्षणयुक्तमधश्च तदनुरूपं न भवति-तस्मात्प्रमाणाधीनतरमिति, 'एवं जाव हुंडे'त्ति इह यावत्करणात् 'साई खुजे वामणे'त्ति दृश्य-तत्र 'साईत्ति सादि नाभीतोऽधश्चतुरस्रलक्षणयुक्तमुपरि च तदनुरूपं न भवति, 'खुज्जो त्ति कुजं ग्रीवादौ हस्तपादयोश्चतुरश्रलक्षणयुक्तं सङ्क्षिप्तविकृतमध्यं, 'वामणे'त्ति वामनं लक्षणयुक्तमध्यं ग्रीवादौ हस्तपादयोरप्यादिलक्षणन्यूनं, 'हुंडे'त्ति हुण्डं प्रायः सर्वावयवेष्वादिलक्षणविसंवादोपेतमिति ॥ अनन्तरं संस्थानवक्तव्यतोक्ता, अथ संस्थानवतोऽनगारस्य वक्तव्यताविशेषमभिधातुकाम आह भत्तपच्चक्खायए णं भंते ! अणगारे मुच्छिए जाव अज्झोववन्ने आहारमाहारेति अहे णं वीससाए कालं करेति तओ पच्छा अमुच्छिए अगिद्धे जाव अणज्झोववन्ने आहारमाहारेति ?, हंता गोयमा ! भत्तपच्चक्खायए णं अणगारे तं चेव, से केण?णं भन्ते! एवं वु० भत्तपञ्चक्खायएणं तं चेव ?, गोयमा! भत्तपच्चक्खायए णं | अणगारे [मुच्छिए] मुच्छिए जाव अज्झोववन्ने भवइ अहे गंवीससाए कालं करेइ तओ पच्छा अमुच्छिए जाव आहारे भवइ से तेणटेणं गोयमा ! जाव आहारमाहारेति (सूत्रं ५२४)॥ | भत्तेत्यादि, तत्र 'भत्तपचक्खायए णं'ति अनशनी'मूञ्छितः' सञ्जातमूर्छ:-जाताहारसंरक्षणानुबन्धः तद्दोषविषये वा मूढः 'मूर्छा मोहसमुच्छाययोः' इति वचनात् , यावत्करणादिदं दृश्य-गढिए' ग्रथित आहारविषयस्नेहतन्तुभिः ४ संदर्भितः 'ग्रन्थ श्रन्थ संदर्भ इति वचनात् 'गिद्धे' गृद्धः प्राप्ताहारे आसक्तोऽनृप्तत्वेन वा तदाकासावान् 'गृधु अभिकाङ्क्षायाम्' *CRICARRORIES in Education international For Personal & Private Use Only sioww.jainelibrary.org

Loading...

Page Navigation
1 ... 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664