Book Title: Bhagwati sutram Part 02
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
नद्या उभयतो यमकसमकाभिधानौ पर्वतौ स्तस्तेषु, 'कंचणपवएसु'त्ति उत्तरकुरुषु शीतानदीसम्बन्धिनां पञ्चानां नीलवदादिह्नदानां क्रमव्यवस्थितानां प्रत्येकं पूर्वापरतटयोर्दश दश काञ्चनाभिधाना गिरयः सन्ति ते च शतं भवन्ति, एवं देवकुरुष्वपि शीतोदानद्याः सम्बन्धिनां निषददादीनां पञ्चानां महादानामिति, तदेवं द्वे शते, एवं धातकीखण्डपूर्वार्धादिष्वप्यतस्तेष्विति ॥ चतुर्दशशतेऽष्टमः॥१४-८॥
| अनन्तरोद्देशकान्त्यसूत्रेषु देवानां चित्रार्थविषयं सामर्थ्यमुक्त, तस्मिंश्च सत्यपि यथा तेषां स्वकर्मलेश्यापरिज्ञानसामर्थ्य कथञ्चिन्नास्ति तथा साधोरपीत्याद्यर्थनिर्णयार्थो नवमोद्देशकोऽभिधीयते, इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्-. | अणगारे णं भंते ! भावियप्पा अप्पणो कम्मलेस्सं न जाणइ न पासह तं पुण जीवं सरूविं सकम्मलेस्सं जाणइ पासइ ?, हंता गोयमा ! अणगारे णं भावियप्पा अप्पणो जाव पासति ॥ अस्थि णं भंते ! सरूवी सकम्मलेस्सा पोग्गला ओभासंति ४१, हंता अत्थि ॥ कयरे णं भंते ! सरूवी सकम्मलेस्सा पोग्गला ओभासंति जाव पभासेंति ?, गोयमा ! जाओ इमाओ चंदिमसूरियाणं देवाणं विमाणेहिंतो लेस्साओ बहिया अभिनिस्सडाओ ताओ ओभासंति पभासेंति एवं एएणं गोयमा! ते सरूवी सकम्मलेस्सा पोग्गला ओभासेंति ४ (सूत्रं ५३४)॥ 'अणगारे ण'मित्यादि, अनगारः 'भावितात्मा' संयमभावनया वासितान्तःकरणः आत्मनः सम्बन्धिनी कर्मणो
व्या.११.
Jan Education internacional
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 655 656 657 658 659 660 661 662 663 664