Book Title: Bhagwati sutram Part 02
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 646
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः २ ॥६४९॥ निर्वृत्तः औपशमिक:- सम्यग्दर्शनादि, 'खइए' त्ति क्षय:- कर्माभावः स एव क्षायिकः क्षयेण वा निर्वृत्तः क्षायिक:- केवलज्ञानादिः, 'खओवसमिए'त्ति क्षयेण - उदयप्राप्तकर्मणो विनाशेन सहोपशमो - विष्कम्भितोदयत्वं क्षयोपशमः स एव ४ क्षायोपशमिक:- क्रियामात्रमेव क्षयोपशमेन वा निर्वृत्तः क्षायोपशमिकः - मतिज्ञानादिपर्यायविशेषः, नन्वौपशमिकस्य क्षायोपशमिकस्य च कः प्रतिविशेषः, उभयत्राप्युदीर्णस्य क्षयस्यानुदीर्णस्य चोपशमस्य भावात् ?, उच्यते, क्षायोपशमिके विपा| कवेदनमेव नास्ति प्रदेशवेदनं पुनरस्त्येव, औपशमिके तु प्रदेशवेदनमपि नास्तीति, 'पारिणामिए'त्ति परिणमनं परिणामः स एव पारिणामिकः, 'सन्निवाइए 'ति सन्निपातः - औदयिकादिभावानां द्व्यादिसंयोगस्तेन निर्वृत्तः सान्निपातिकः । 'संठातुल्लए 'त्ति संस्थानं-आकृतिविशेषः, तच्च द्वेधा-जीवाजीवभेदात्, तत्राजीवसंस्थानं पञ्चधा, तत्र 'परिमंडले संठाणे' त्ति परिमण्डलसंस्थानं बहिस्ताद्वृत्ताकारं मध्ये शुषिरं यथा वलयस्य, तच्च द्वेधा- घनप्रतरभेदात्, 'वट्टे'त्ति वृत्तं - परिमण्डलमेवान्तःशुषिररहितं यथा कुलालचक्रस्य, इदमपि द्वेधा - घनप्रतरभेदात्, पुनरेकैकं द्विधा - समसङ्ख्यविषमसङ्ख्य प्रदेश भेदात्, एवं त्र्यनं चतुरस्रं च, नवरं 'त्र्यसं' त्रिकोणं शृङ्गाटकस्येव चतुरस्रं तु चतुष्कोणं यथा कुम्भिकायाः, आयतदीर्घं यथा दण्डस्य, तच्च त्रेधा - श्रेण्यायतप्रतराय तघनायतभेदात्, पुनरेकैकं द्विधा - समसङ्ख्यविषमसङ्खयप्रदेशभेदात् इदं च पञ्चवि धमपि विश्रसाप्रयोगाभ्यां भवति, जीवसंस्थानं तु संस्थानाभिधाननामकर्म्मोत्तरप्रकृत्युदयसम्पाद्यो जीवानामाकारः, तच्च | षोढा, तत्राद्यं 'समचउरंसे 'ति तुल्यारोहपरिणाहं सम्पूर्णाङ्गावयवं स्वाङ्गलाष्टशतोच्छ्रयं समचतुरस्रं, तुल्यारोहपरिणाहत्वेन | समत्वात् पूर्णावयवत्वेन च चतुरस्रत्वात्तस्य, चतुरस्रं सङ्गतमिति पर्यायौ, 'एवं परिमंडलेवि त्ति यथा समचतुरस्रमुक्तं Jain Education International For Personal & Private Use Only १४ शतके ७ उद्देशः द्रव्यादि तुल्यता सू ५२३ ॥ ६४९ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664