Book Title: Bhagwati sutram Part 02
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
Jain Education
'रायगिहे' इत्यादि, तत्र किल भगवान् श्रीमन्महावीरः केवलज्ञानाप्राध्या सखेदस्य गौतमस्वामिनः समाश्वासनायात्मनस्तस्य च भाविनीं तुल्यतां प्रतिपादयितुमिदमाह - 'गोयमे' त्यादि, 'चिरसंसिद्धोऽसि सि चिरं बहुकालं यावत् चिरे वा अतीते प्रभूते काले संश्लिष्टः- स्नेहात्संबद्धश्चिरसंश्लिष्टः 'असि' भवसि 'मे' मया मम वा त्वं हे गौतम !, 'चिरसंधुओ'त्ति चिरं - बहुकालम् अतीतं यावत् संस्तुतः - स्नेहात्प्रशंसितश्चिरसंस्तुतः, एवं 'चिरपरिचिए 'ति पुनः पुनर्दर्शनतः परिचितश्चिरपरिचितः, 'चिरजुसिए'त्ति चिरसेवितश्चिरप्रीतो वा 'जुषी प्रीतिसेवनयोः' इति वचनात्, 'चिराणुगए'त्ति चिर - मनुगतो ममानुगतिकारित्वात्, 'चिराणुवत्तीसि'त्ति चिरमनुवृत्तिः - अनुकूलवर्त्तिता यस्यासौ चिरानुवृत्तिः, इदं च चिर| संश्लिष्टत्वादिकं क्वासीत् ? इत्याह- 'अनंतरं देवलोए 'त्ति अनन्तरं - निर्व्यवधानं यथा भवत्येवं देवलोके अनन्तरे देव| भवे इत्यर्थः ततोऽपि - अनन्तरं मनुष्यभवे, जात्यर्थत्वादेकवचनस्य देवभवेषु मनुष्यभवेषु चेति द्रष्टव्यं तत्र किल त्रिपृष्ठ - भवे भगवतो गौतमः सारथित्वेन चिरसंश्लिष्टत्वादिधर्म्मयुक्त आसीत्, एवमन्येष्वपि भवेषु संभवतीति, एवं च मयि तव गाढत्वेन स्नेहस्य न केवलज्ञानमुत्पद्यते भविष्यति च तवापि स्नेहक्षये तदित्यधृतिं मा कृथा इति गम्यते, 'किं परं ?, मरण ति किं बहुना 'परं'ति परतो 'मरणात् ' मृत्योः, किमुक्तं भवति ? - कायस्य भेदाद्धेतोः 'इओ चुय'त्ति 'इतः' प्रत्यक्षान्मनुष्यभवाच्युतौ 'दोवि'त्ति द्वावप्यावां तुल्यौ भविष्याव इति योगः, तत्र 'तुल्यौ' समानजीवद्रव्यौ 'एकट्ठ'त्ति 'एकार्थी' एकप्रयोजनावनन्तसुखप्रयोजनत्वात् एकस्थौ वा एकक्षेत्राश्रितौ सिद्धिक्षेत्रापेक्षयेति 'अविसेसमणाणत्त' त्ति 'अविशेषं' निर्विशेषं | यथा भवत्येवम् ' अनानात्वौ' तुल्यज्ञानदर्शनादिपर्यायाविति, इदं च किल यदा भगवता गौतमेन चैत्यवन्दनायाष्टापदं गत्वा
onal
For Personal & Private Use Only
jainelibrary.org

Page Navigation
1 ... 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664