Book Title: Bhagwati sutram Part 02
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
पद्मलतास्तद्रूपाभिभक्तिभिः-विच्छित्तिभिश्चित्रो यः स तथा, यावत्करणादिदं दृश्यं-'पासाइए दरिसणिज्जे अभि-18 रूवेत्ति, 'मणिपेढिया अट्ठजोयणिया जहा वेमाणियाणं ति मणिपीठिका वाच्या, सा चायामविष्कम्भाभ्यामष्टयोजनिका यथा वैमानिकानां सम्बधिनी न तु व्यन्तरादिसत्केव, तस्या अन्यथास्वरूपत्वात् , सा पुनरेवं-'तस्स णं बहुसमरमणिजस्सभूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगं मणिपेढियं विउच्वइ, सा णं मणिपेढिया अह जोयणाई आयामविक्खंभेणं पन्नत्ता चत्तारि जोयणाई बाहल्लेणं सवरयणामई अच्छा जाव पडिरूव'त्ति, |'सयणिज्जवन्नओ'त्ति शयनीयवर्णको वाच्यः, स चैवं-तस्स णं देवसयणिजस्स इमेयारूवे वन्नावासे पण्णत्ते' वर्णकव्यासः-वर्णकविस्तरः, 'तंजहा-नाणामणिमया पडिपाया सोवन्निया पाया णाणामणिमयाई पायसीसगाई'इत्यादिरिति, 'दोहि य अणीएहिं ति अनीकं-सैन्यं 'नाणीएण यत्ति नाव्यं-नृत्यं तत्कारकमनीकं-जनसमूहो नाट्यानीकं, एवं गन्धर्वानीकं नवरं गन्धर्व-गीतं, 'महये'त्यादि यावत्करणादेवं दृश्यं-'महयाहयनहगीयवाइ-1 यतंतीतलतालतुडियघणमुइंगपडुप्पवाइयरवेणं ति व्याख्या चास्य प्राग्वत् , इह च यत् शक्रस्य सुधर्मसभालक्षणभोगस्थानसद्भावेऽपि भोगार्थ नेमिप्रतिरूपकादिविकुर्वणं तन्जिनास्लामाशातनापरिहारार्थ, सुधर्मसभायां हि माणवके स्तम्भे जिनास्थीनि समुद्गकेषु सन्ति, तत्प्रत्यासत्तौ च भोगानुभवने तदबहुमानः कृतः स्यात् स चाशातनेति । 'सिंहासणं विउच्चइ'त्ति सनत्कुमारदेवेन्द्रः सिंहासनं विकुरुते न तु शक्रेशानाविव देवशयनीयं, स्पर्शमात्रेण तस्य परिचारकत्वान्न शयनीयेन प्रयोजनमिति भावः, 'सपरिवारं'ति स्वकीयपरिवारयोग्यासनपरिकरितमित्यर्थः, 'नवरं जो जस्स
Jain Education
For Personal & Private Use Only
KDainelibrary.org

Page Navigation
1 ... 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664