Book Title: Bhagwati sutram Part 02
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 591
________________ स्वादिति । अनात्मरूपाऽपि सचित्तासौ भविष्यति जीवच्छरीरवदिति पृच्छन्नाह–सचिसे'त्यादि, उत्तरं तु मो सचित्ता जीवनिसृष्टपुद्गलसंहतिरूपत्वात्तथाविधलेष्ठुवत्, तथा 'जीवा भंते !'इत्यादि, जीवतीति जीवा-प्राणधारणस्वरूपा भाषा उतैतद्विलक्षणेति प्रश्नः, अत्रोत्तरं नो जीवा, उच्छासादिप्राणानां तस्या अभावादिति।इह कैश्चिदभ्युपगम्यते अपौरुषेयी वेदभाषा, तन्मतं मनस्याधायाह-'जीवाण'मित्यादि, उत्तरं तु जीवानां भाषा, वर्णानांताल्वादिव्यापारजन्यत्वात् ताल्वादिव्यापारस्य च जीवानितत्वात्, यद्यपि चाजीवेभ्यः शब्द उत्पद्यते तथाऽपि नासौ भाषा, भाषापर्याप्तिजन्यस्यैव शब्दस्य भाषात्वेनाभिमतत्वादिति । तथा 'पुधि'मित्यादि, अनोत्तर-नो पूर्व भाषणाद् भाषा भवति मृत्पिण्डावस्थायां घट इव, भाष्यमाणा-निसर्गावस्थायां वर्तमाना भाषा घटावस्थायां घटस्वरूपमिव, 'नो' नैव भाषासमयव्यतिकान्ता-भाषासमयो-निसृज्यमानावस्थातो यावद्भाषापरिणामसमयस्तं व्यतिक्रान्ता या सा तथा भाषा भवति, घटसमयातिक्रान्तघटवत् कपालावस्थ इत्यर्थः । 'पुत्विं भंते !'इत्यादि, अनोत्तरं-'नो' नैव पूर्व निसर्गसमयाभापाद्रव्यभेदेन | भाषा भिद्यते, भाष्यमाणा भाषा भिद्यते, अयमत्राभिप्रायः-इह कश्चिन्मन्दप्रयत्नो वक्ता भवति स चाभिन्नान्येव शब्दद्रव्याणि निसृजति, तानि च निसृष्टान्यसङ्ख्येयात्मकत्वात् परिस्थूरत्वाच्च विभिद्यन्ते, विभिद्यमानानि च सङ्ख्येयानि योजनानि गत्वा शब्दपरिणामत्यागमेव कुर्वन्ति, कश्चित्तु महाप्रयत्नो भवति स खल्वादानविसर्गप्रयत्नाभ्यां भित्त्वैव |विसृजति, तानि च सूक्ष्मत्वाद्बहुत्वाच्चानन्तगुणवृद्ध्या वर्द्धमानानि षट्सु दिक्षु लोकान्तमामुवन्ति, अत्र च यस्यामवस्थायां शब्दपरिणामस्तस्यां भाष्यमाणताऽवसेयेति, 'मो भासासमयवीइकते'ति परित्यक्तभाषापरिणामेत्यर्थः Jain Ede For Personal & Private Use Only Manelibrary.org

Loading...

Page Navigation
1 ... 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664