________________
स्वादिति । अनात्मरूपाऽपि सचित्तासौ भविष्यति जीवच्छरीरवदिति पृच्छन्नाह–सचिसे'त्यादि, उत्तरं तु मो सचित्ता जीवनिसृष्टपुद्गलसंहतिरूपत्वात्तथाविधलेष्ठुवत्, तथा 'जीवा भंते !'इत्यादि, जीवतीति जीवा-प्राणधारणस्वरूपा भाषा उतैतद्विलक्षणेति प्रश्नः, अत्रोत्तरं नो जीवा, उच्छासादिप्राणानां तस्या अभावादिति।इह कैश्चिदभ्युपगम्यते अपौरुषेयी वेदभाषा, तन्मतं मनस्याधायाह-'जीवाण'मित्यादि, उत्तरं तु जीवानां भाषा, वर्णानांताल्वादिव्यापारजन्यत्वात् ताल्वादिव्यापारस्य च जीवानितत्वात्, यद्यपि चाजीवेभ्यः शब्द उत्पद्यते तथाऽपि नासौ भाषा, भाषापर्याप्तिजन्यस्यैव शब्दस्य भाषात्वेनाभिमतत्वादिति । तथा 'पुधि'मित्यादि, अनोत्तर-नो पूर्व भाषणाद् भाषा भवति मृत्पिण्डावस्थायां घट इव, भाष्यमाणा-निसर्गावस्थायां वर्तमाना भाषा घटावस्थायां घटस्वरूपमिव, 'नो' नैव भाषासमयव्यतिकान्ता-भाषासमयो-निसृज्यमानावस्थातो यावद्भाषापरिणामसमयस्तं व्यतिक्रान्ता या सा तथा भाषा भवति, घटसमयातिक्रान्तघटवत् कपालावस्थ इत्यर्थः । 'पुत्विं भंते !'इत्यादि, अनोत्तरं-'नो' नैव पूर्व निसर्गसमयाभापाद्रव्यभेदेन | भाषा भिद्यते, भाष्यमाणा भाषा भिद्यते, अयमत्राभिप्रायः-इह कश्चिन्मन्दप्रयत्नो वक्ता भवति स चाभिन्नान्येव शब्दद्रव्याणि निसृजति, तानि च निसृष्टान्यसङ्ख्येयात्मकत्वात् परिस्थूरत्वाच्च विभिद्यन्ते, विभिद्यमानानि च सङ्ख्येयानि योजनानि गत्वा शब्दपरिणामत्यागमेव कुर्वन्ति, कश्चित्तु महाप्रयत्नो भवति स खल्वादानविसर्गप्रयत्नाभ्यां भित्त्वैव |विसृजति, तानि च सूक्ष्मत्वाद्बहुत्वाच्चानन्तगुणवृद्ध्या वर्द्धमानानि षट्सु दिक्षु लोकान्तमामुवन्ति, अत्र च यस्यामवस्थायां शब्दपरिणामस्तस्यां भाष्यमाणताऽवसेयेति, 'मो भासासमयवीइकते'ति परित्यक्तभाषापरिणामेत्यर्थः
Jain Ede
For Personal & Private Use Only
Manelibrary.org