Book Title: Bhagwati Sutram
Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
श्रीभग० लघुवृत्तौ
द्विकत्रिकचतुष्कसंयोगाः स्युः, तत्र द्विकसंयोगाः २४, कथं ?, चतुर्णां पदानां षट् द्विकसंयोगाः, तत्रैकैकस्मिन् प्रागुक्तक्रमेण ४ विकल्पाः, षण्णां चतुर्भिर्गुणने २४, त्रिकसंयोगा अपि २४, कथं १, चतुर्णां पदानां त्रिसंयोगाः ४, एकैकसिंच प्रागुक्तरीत्या षड् विकल्पाः, चतुर्णां षभिर्गुणने २४, चतुष्कसंयोगे तु ४, कथं ?, आदौ द्वे त्रिषु चैकैकं १ द्वितीयस्थाने द्वे शेषेषु चैकैकं २ तृतीयस्थाने द्वे शेषेषु चैकैकं ३ चतुर्थे द्वे शेषेषु चैकैकं ४ एवं चत्वार इति, एकेन्द्रियादिषु पञ्चपदेषु द्विकत्रिकचतुष्कपञ्चकसंयोगाः स्युः, तत्र द्विकसंयोगे ४० विकल्पाः, कथं ?, पञ्चानां पदानां दश द्विकसंयोगाः, एकैकस्मिंश्च द्विकसंयोगे प्रागुक्तरीत्या ४ विकल्पाः, दशानां चतुर्भिर्गुणने चत्वारिंशत्, त्रिकसंयोगे तु षष्टिः, कथं ?, पञ्चानां पदानां दश त्रिसंयोगाः, एकैकस्मिन त्रिकसंयोगे प्रागुतरीत्या ६ विकल्पाः, दशानां च षद्भिर्गुणने पष्टिरिति चतुष्कसंयोगाः २०, कथं १, पञ्चानां पदानां चतुष्क संयोगे ५ विकल्पाः, एकैकस्मिंश्च प्रागुक्तरीत्या ४ विकल्पाः, पञ्चानां चतुर्भिर्गुणने २०, पञ्चकसंयोग एक एव एवं पट्टादिसंयोगा अपि वाच्याः, नवरं षट्संयोगा आरम्भसत्यमनः प्रयोगादिषु स्यात्, सप्तकसंयोगस्त्वौदारिककायादिप्रयोगमाश्रित्य, अष्टकसंयोगस्तु व्यन्तरभेदान्, नवकसंयोगो ग्रैवेयक देव भेदान्, दशकसंयोगस्तु भवनपतिदेव भेदानाश्रित्य वैक्रियशरीरकायप्रयोगापेक्षया समवसेयः, एकादशसंयोगः | शून्यः नारकादिपदेषु तस्यासम्भवात्, द्वादशसंयोगः कल्पोपपन्नदेव भेदानाश्रित्य वैक्रियशरीरकायप्रयोगापेक्षया चेति, 'पवेसणाए 'ति नवमशततृतीयोदेश के गाङ्गेयाभिधानानगारकृतनरकादिगतिप्रवेशन विचारे, कियन्ति तदनुसारेण द्रव्याणि वाच्यानीत्याह- 'जाव असंखेज' त्ति असङ्ख्यातान्तनारकादिवक्तव्यताश्रयं हि तत्सूत्रं, इह यो विशेषस्तमाह- 'अणंते' त्यादि । अथैषा मेवाल्पबहुत्वमाह - 'सव्वत्थोव' त्ति (सु. ३१४) कायादिरूपतया जीवपुद्गलसंबन्धकालस्य स्तोकत्वात्, 'मीसाप० अनंत
HOCHHARYA COMM
८ शतके १ उद्दे०