Book Title: Bhagwati Sutram
Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
।
८ शतके १ उद्दे०
श्रीभग दियवं० घाणिदियवं० फासिंदियवंजणुग्गहे 'एगट्ठियवजंति इहापि आभिणियोहियनाणे अगिण्हणयाए अवधारणाए अवलंबणयाए लघुवृत्ती मेहाए' इत्यादिपदानि पश्चैकार्थिकान्यवग्रहादीनामधीतानि, मत्यज्ञाने तु न तान्यध्येयानि इति भावः, 'जाव नोइंदियधार
ण'त्ति इदमन्त्यपदं यावदित्यर्थः, 'जं इमं अण्णाणिएहिं यदिदं मत्यज्ञानिकैः,अत आह-'मिच्छादिट्ठीहिंति मिथ्यादृष्टिभिः 'जहा नंदीए'त्ति तत्रैतत्सूत्रं सच्छंदबुद्धिमइविगप्पियं, तं०-भारहं रामायण'मित्यादि, 'संगोवंग'त्ति इहाङ्गानि-शिक्षादीनि षद् उपाङ्गानि-तव्याख्यारूपाणि, 'गामसंठिए'त्ति ग्रामालम्बनत्वात् ग्रामाकारमेव, एवमन्यान्यपि 'वाससंठिए भरतादिवर्षाकारं 'वासहर'त्ति हिमवदादिवर्षधरपर्वताकारं 'पसय'त्ति पसय आटव्यो द्विखुरश्चतुष्पदविशेषः, एवं विविधसंस्थानसंस्थितमिति, 'अत्थेगइया एगनाणी' केवलज्ञानीति, 'नेरइयाण'ति 'तिनाणी'ति सम्यग्दृष्टिनारकाणां भवप्रत्ययमवधिज्ञानमस्तीतिकृत्वा | नियमात् त्रिज्ञानिनः, 'अन्नाणी ते अत्थेगइया दुअन्नाणी'ति, कथं स्यात् ?, असंज्ञिनस्संतो ये नारकेपुत्पद्यन्ते तेषामपर्याप्तावस्थायां |विभङ्गाभावादाद्यमेवाज्ञानद्वयमस्ति, ततो द्वयज्ञानिनः, ये तु मिथ्यादृशः संज्ञिभ्य उत्पद्यते तेषां भवप्रत्ययविभङ्गे सति ते व्यज्ञा
निनः, 'बेइंदियाणं'ति द्वीन्द्रियाः केचित् ज्ञानिनः सास्वादनसम्यग्दर्शनभावादपर्याप्तकावस्थायां स्युरित्युच्यते 'नाणी ति ॥अथ Kगत्यादि २० द्वारगाथाद्वयमाह-"गइ १ इंदिए य २ काए ३ सुहुमे ४ पजत्तए ५ भवत्थे य ६ । भवसिद्धिए य७ सन्नी ८ लद्धी
९ उवओग १० जोगे य ११॥१॥ लेसा १२ कसाय १३ वेयण १४ आहारे १५ नाणगोयरे १६ काले १७। अंतर १८ अप्पाबहुयं १९ पजवा २० चेव दाराइं ॥२॥"निरयगई'त्ति(सू.३१८)निरये गतियेषां ते निरयगतिकास्तेषां, इह च सम्यग्दृष्टयो मिथ्यादृष्टयो वा ज्ञानिनोऽज्ञानिनो वा ये पञ्चेन्द्रियतिर्यङ्मनुष्येभ्यो नरके उत्पत्तुकामा अन्तरगतौ वर्त्तन्ते ते निरयगतिका विव