Book Title: Bhagwati Sutram
Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text ________________
लघुवृत्ती
३५० २ उद्देश:
श्रीभगा लक्षणो येषां तेऽचरमसमयास्ते च ते कृमयुग्मकृतयुग्मैकेन्द्रियाश्चेति समासः ॥पष्ठे तु 'पढमपढमसमयकडजुम्मएगिदित्ति
एकेन्द्रियोत्पादस्य प्रथमसमययोगाद्ये प्रथमाः प्रथमश्च समयः कृतयुग्मकृतयुग्मानुभूतेर्येषामेकेन्द्रियाणां ते प्रथमप्रथमसमयकृतयुग्मैकेन्द्रियाः।। सप्तमे तु 'पढमअपढमसमयकडजुम्म २ एगिदियत्ति ग्रंथमास्तथैव अप्रथमश्च समयः कृतयुग्मकृतयुग्मत्वानुभूतेर्येपामेकेन्द्रियाणां ते प्रथमाप्रथमसमयकृतयुग्मैकेन्द्रियाः,इह चैकेन्द्रियत्वोत्पादप्रथमसमयवर्तित्वे तेषां यद्विवक्षितसङ्ख्यानुभूतेरप्रथमसमयवर्तित्वं तत्प्राग्भवसम्बन्धिनी तामाश्रित्येति ज्ञेयं,एवमुत्तरत्रापि ।। अष्टमे तु 'पढमचरिमसमयकडजुम्म'त्ति प्रथमाश्च ते विवक्षितसङ्ख्यानुभूतेः प्रथमसमयवर्तित्वात् चरमसमयाश्च मरणसमयवर्तिनः परिशाटस्था इति प्रथमचरमसमयास्ते च ते कृतयुग्मैकेन्द्रियाश्चेति विग्रहः।-नव मे तु 'पढमअचरिमसमयकडजुम्मकडजुम्म'त्ति प्रथमस्तथैव अचरमसमयस्त्वेकेन्द्रियोत्पादापेक्षया चरमसमयवर्तिन, इंह विवक्षितचरमत्वनिषेधस्य तेषु विद्यमानत्वाद् , अन्यथा हि द्वितीयोदेशकोक्तानामवगाहनादीनां यदिह समत्वमुक्तं तन्न स्यात् , ततः कर्मधारयः, शेषं तु तथैव ॥ दशमे तु 'चरमसमयकडजुम्मति चरमाश्च ते विवक्षितसङ्ख्यानुभूतेश्वस्मसमयवर्तित्वात् चरमसमयाश्च प्रागुक्तरूपाः, शेषं तु प्राग्वत् ।। एकादशे तु 'चरमअचरमसमय'त्ति चरमास्तथैव अचरमसमयाश्च प्रागुक्तयुक्तरेकेन्द्रियोत्पादापेक्षया प्रथमसमयवर्त्तिनो ये ते चरमाचरमसमयास्ते च ते कृतयुग्मैकेन्द्रियाश्चेति विग्रहः, उक्तोद्देशानां स्वरूपनिर्धारणायाह-'पढमो तइओ पंचमगो य सरिसगमोत्ति, कथं ?, यतः प्रथमापेक्षया द्वितीये यानि नानात्वान्यवगाहनादीनि दश स्युः न तान्येतेष्विति, सेसा अट्ट सरिसगम'त्ति द्वितीयचतुर्थषष्ठादयो मिथः सदृशगमाः-प्रागुक्तेभ्योऽविलक्षणा गमाः, द्वितीयसमानगमा इत्यर्थः, विशेषमाह-'नवरं चउत्थेत्यादि । कृष्णलेश्याशते. 'जहण्णेणं एक समयंति
Loading... Page Navigation 1 ... 593 594 595 596 597 598 599 600