Book Title: Bhagwati Sutram
Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text ________________ लघुवृत्ती श्रीभगा अथ भगवत्या व्याख्याप्रज्ञयाः प्रमाणानिधित्सया गाथामाह-'चुलसी' त्यादि (*109) चतुरशीतिः शतसहस्राणि पदानां |अत्राङ्गे इति सम्बन्धः, पदानि च विशिष्टसम्प्रदायगम्यानि, प्रवराणां वरं यज्ज्ञानं तेन पश्यंतीत्येवंशीला ये ते प्रवरवरज्ञानदर्शि नस्तैः, केवलिभिरित्यर्थः, प्रज्ञप्तानीति योगः इदं सूत्रस्वरूपमुक्तं,अथार्थप्ररूपणामाह-'भावाभावमणंत'त्ति भावा-जीवादिपदार्थाः | अभावाश्च त एव अथवा भावा-विधयः अभावा-निषेधाः, प्राकृतत्वाचेत्थं निर्देशः, अनन्ता-अपरिमाणाः अथवा भावैः विषयभूतानि भावाभावानन्तानि, चतुरशीतिः शतसहस्राणि प्रज्ञप्तानि, अत्र-प्रत्यक्षे पञ्चमे अङ्गे इत्यर्थः / अथान्त्यमङ्गलं सङ्घ समुद्ररूपेण स्तुवन्नाह-'तवे'त्यादि (1910) गाथा कण्ठ्या, नवरं 'हेउसय'त्ति हेतुशतानि-इष्टानिष्टार्थसाधननिराकरणयोर्लिङ्गशतानि तान्येवेति 'नमो गोयमाईणं गणहराण' मित्यादयो नमस्कारा ज्ञेयाः // . // इति भगवतीविशेषपदव्याख्या सम्पूर्णा / / भद्रं भवतु सङ्घाय, श्रीमच्छ्रीजिनशासने / साक्षाद् भगवतीव्याख्यादेवतासुप्रसादतः // 2 // अज्ञेन मया गदितं समयविरुद्धं यदङ्गटीकायाम् / सद्यः प्रसद्य शोध्यं गुरुवद्गुरुधीधनैर्गुरुभिः // 2 // इति श्रीअनन्तहंसशिष्यश्रीदानशेखरसूरिविहिता श्रीभगवतीविशेषव्याख्या f==sSLossess sansass moomysaniliye militaramlim womlammOHIN INDINAMAIO MINMIN WOMINoiNSOM
Loading... Page Navigation 1 ... 598 599 600