Book Title: Bhagwati Sutram
Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 547
________________ श्रीभग० लघुवृत्तौ नपुंसक वेदको वर्द्धितकत्वादिभावेनासौ स्यात् पुरुषनपुंसकवेदको, न स्वरूपेणेतियावत्, 'कसायकुसीले ण' मित्यादौ, 'उवसं तवेदए होज 'त्ति सूक्ष्मसम्परायगुणस्थानं यावत् कषायकुशीलः स्यात् स च प्रमत्तात्रमत्तापूर्वकरणेषु सवेदः अनिवृत्तिवादरे तूपशान्तेषु क्षीणेषु वा वेदेष्ववेदः स्यात् सूक्ष्मसंपराये वेति, 'नियंठे ण'मित्यादौ 'उवसंत वेदए वा होजा खीणवे० ' श्रेणिद्वये निर्ग्रन्थत्वभावात् 'सिणाए ण' मित्यादौ 'नो उवसंतवेयए होज्जा, खीणवेयए होज 'त्ति क्षपकश्रेण्यामेव स्नातकस्य भावादिति । रागद्वारे 'किं सरागो'त्ति (सू. ७५२) सरागः - सकषायः । कल्पद्वारे - ' किं ठिकप्पे त्ति (सू. ७५३) आचेलक्यादिषु १० पदेषु प्रथम पश्चिमतीर्थकृत्साधवः स्थिता एव, अवश्यं तत्पालनादिति तेषां स्थितिः - कल्पः, तत्र वा पुलाकः स्यात्, मध्यमतीर्थकृत्साधवस्तु तेषु स्थिताश्चास्थिताश्चेत्यस्थितकल्पस्तेषां तत्र वा पुलाकः स्यात् एवं सर्वेऽपि, अथवा कल्पो जिनकल्पः स्थविरकल्पश्वेति द्विधा, तमाश्रित्याह- 'किं जिणकप्पे' त्ति 'कप्पातीते' त्ति जिनकल्पस्थविरकल्पाभ्यामन्यत्र, 'कसायकुसीले ण' मित्यादौ 'कप्पातीए वा होज'त्ति कल्पातीते वा कषायकुशीलः स्यात्, कल्पातीतस्य छबस्थतीर्थकृतः सकषायत्वादिति, 'नियंडे ण' मित्यादौ 'कप्पातीते होज्जा' निर्ग्रन्थः कल्पातीत एव स्यात्, यतस्तस्य जिनकल्पस्थविरकल्पधर्मा न सन्ति । चरित्रद्वारे (सू. ७५४ ) व्यक्तमेव, प्रतिसेवनाद्वारे 'पडि सेवए'त्ति (सू. ७५५) सबलनकपायोदयात् संयमप्रतिकूलार्थस्य सेवकः प्रतिसेवकः, संयमविराधक इत्यर्थः एवं मूलगुणप्रतिसेवकः, नवरमुत्तरगुणा - दशविधप्रत्याख्यानरूपाः, 'दस विहस्स' त्ति 'अणागय मइकंत' मित्यादि दशविधं, 'नमुकार पोरिसीए' इत्याद्यपि दशविधं, 'अण्णयरं 'ति एकतरं प्रत्याख्यानं विराधयेत्, पिण्डविशुद्ध्यादिविराधकत्वमपि सम्भाव्यत इति । (सु. ७५६) ज्ञानद्वारे मतिज्ञानादीनि । (सू. ७५७ ) श्रुतद्वारे अष्टप्रवचनमात्रश्रुतं वकुशस्य जघन्यं स्यात्, २५ शु० ६ उद्देशः

Loading...

Page Navigation
1 ... 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600