Book Title: Bhagwati Sutram
Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text ________________
श्रीभग०लघुवृत्तौ
बन्धः सामान्यः करणं त्ववश्यं विपाकदायकत्वेन निष्पादनं निघत्तादिखरूपमिति, 'करिंसुयसयं'ति 'करिंसु' इत्यनेन शब्देन युक्तं शतं प्राकृतत्वात् 'करिंसुयसयं'ति ॥ सप्तविंशं शतं वृत्तितः सम्पूर्णम् ॥
अथाष्टाविंशं व्याख्यायते - 'कहिं समजिणिसुं' त्ति (सू. ८१९) कस्यां गतौ वर्त्तमानाः समर्जितवन्तो ? - गृहीतवन्तः, 'समायरिंसु'त्ति कस्यां समाचरितवन्तः पापकर्महेतुसमाचरणेन, तद्विपाकानुभवनेनेति वृद्धाः । 'सव्वेऽवि ताव तिरिक्खजोणिएस होज्ज' त्ति, इह तिर्यग्योनिभ्यः, अन्ये नारकादयस्तिर्यग्भ्य आगत्योत्पन्नाः कदाचिद्भवेयुस्ततस्ते सर्वेऽपि तिर्यग्योनिकेष्वभूवन्निति व्यपदिश्यते, अयमभिप्रायो- ये विवक्षितसमये नारकादयोऽभूवंस्तेऽल्पत्वेन सर्वेऽपि सिद्धिगमनेन तिर्यग्गतिप्रवेशेन च निर्लेपतयोद्वत्ताः, ततश्च तिर्यग्गतेरनन्तत्वेनानिर्लेपनीयत्वात् तत् उद्श्य तिर्यञ्चस्तत्स्थानेषु नारकादित्वेनोत्पन्नाः ततस्ते तिर्यग्गतौ नरकगत्यादिहेतुभूतं पापकर्म समर्जितवन्त इत्युच्यत इत्येकः, 'अहवा तिरिक्खजोणिएस नेरइएस होज 'त्ति विवक्षि तसमये ये मनुष्यदेवा अभूवंस्ते निर्लेपतया तथैवोद्वत्ताः तत्स्थानेषु च तिर्यग्ग्रारकेभ्य आगत्योत्पन्नास्ते चैवं व्यपदिश्यन्ते - तिर्यग्गैरयिकेष्वभवन् एते, ये च यत्राभूवंस्ते तत्रैव कर्मोपार्जितवन्त इत्यर्थादुच्यते इति द्वितीयः, 'अहवा तिरिक्खंजोगिएसु य मणुएसु य होज्ज' त्ति विवक्षितसमये ये नैरयिका देवास्ते तथैव निर्लेपतयोद्वत्तास्तत्स्थानेषु च तिर्यग्मनुष्येभ्य आगत्योत्पन्नास्ते चैवं व्यपदिश्यन्ते - तिर्यग्मनुष्येष्वभूवन्, तत्रैव कर्मोपार्जितवन्त इति सामर्थ्य गम्यमिति तृतीयः, तदेवमनया भावनयाऽष्टावेते भङ्गाः, तत्रैकस्तिर्यग्गत्यैव १ अन्ये तु तिर्यमैरयिकाभ्यां २ तिर्यग्मनुष्याभ्यां ३ तिर्यग्देवाभ्या ४ मिति -त्रयो द्विकसंयोगाः, तथा तिर्य
२८ श०
॥२८९ ॥
Loading... Page Navigation 1 ... 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600