Book Title: Bhagwati Sutram
Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 590
________________ ३४० श्रीभग० लघुवृत्ती tandan nonNDHANADD पुनर्दक्षिणचरमान्ते उत्पद्यमानस्य द्वयादिसामयिक्थेव गतिरनुश्रेणेरभावाद्, एवमन्यत्रापि विश्रेणिगमनमिति, एवमुत्पादमाश्रित्यैकेन्द्रियप्ररूपणा कृता, अथ तेषामेव स्थानादि दर्शयन्नाह-'कहिणं'ति यत्रास्ते बादरपृथ्वीकायस्तेन, स्वस्थानमाश्रित्येत्यर्थः, 'जहा ठाणपदे'त्ति यथा प्रज्ञापनाया द्वितीयं पदं, तच्चैवं 'तंजहा-रयणप्पभाए सक्करप्पभाए वालुयप्पभाए' इत्यादि, 'एगविह'त्ति एकप्रकार एवं प्रकृतस्वस्थानादिविचारमधिकृत्योच्यते 'अविसेसमणाणत्त'न्ति अविशेषा-विशेषरहिताः, यथा पर्याप्तकास्तथेतरेऽपि, अनानात्वा-नानात्वरहिताः, येष्वेवाधारभृताकाशप्रदेशेष्वेके तेष्वेवेतरेऽपीत्यर्थः, 'सव्वलोयपरियावन्नति उपपातसमुद्घातस्वस्थानः सर्वलोके वर्तन्ते इति भावना, तत्रोपपात उपपाताभिमुख्यं, समुद्घात इह मारणान्तिकादिः, स्वस्थानं तु यत्र ते आसते, | समुद्घातसूत्रे 'वेउव्वियसमुग्घाए'त्ति यदुक्तं तद्वायुकायानाश्रित्येति, एकेन्द्रियानेव भङ्गयन्तरेण दर्शयन्नाह-'तुल्लट्ठिइत्ति तुल्यस्थितिकाः, समानायुष्का इत्यर्थः, 'तुल्लविसेसाहियं कम्मं पकरेंति'त्ति अन्योऽन्यापेक्षया तुल्येन विशेषेणासङ्ख्येयभागादिनाऽधिकं प्राकालबद्धकर्मापेक्षया समधिकं कर्म-ज्ञानावरणादि प्रकुर्वन्ति-बन्नन्ति १, तथा तुल्यस्थितयो 'वेमायविसेसाहियं ति विमात्र:-अन्योऽन्यापेक्षया विषमपरिणामः कस्याप्यसङ्ख्येयभागरूपो यो विशेषस्तेनाधिकं प्राकालबद्धकर्मापेक्षया यत्ततथा २, तथा 'वेमायद्विइ'त्ति विमात्रा-विषममात्रा स्थितिः-आयुर्येषां ते विमात्रस्थितयो, विषमायुष इत्यर्थः३, एवं चतुर्थोऽपि ४, समाउया समोवन्नग'त्ति समस्थितयः समकमेवोन्पन्ना इत्यर्थः, एते च तुल्यस्थितयः समोत्पन्नत्वेन मिथः सदृग्योगत्वात् समानमेव कर्म कुर्युः, ते च प्राकर्मापेक्षया समं वा हीनं वाऽधिकं वा कर्म कुर्युः, यद्यधिकं तदा विशेषाधिकमपि, तच्च मिथस्तुल्यविशेषाधिकं, नतु विशेषाधिकमेवेत्यत उच्यते तुल्यविशेषाधिकमिति १, तथा ये समायुषो विषमोपपन्नकास्ते तुल्यस्थितयो विषमो I TORIEODAHIDIH H॥२९४॥

Loading...

Page Navigation
1 ... 588 589 590 591 592 593 594 595 596 597 598 599 600