Book Title: Bhagwati Sutram
Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 579
________________ Fa minR ailwalan aslediumpinmunityumnimanity MAHD mmmmmunliminallheadlinmami antona ilam m ami मे णं भंते ! मणूसे'त्ति 'वीससु पदेसु'त्ति तानि चैतानि-जीव १ सलेश्य २ शुक्ललेश्य ३ शुक्लपाक्षिक ४ सम्यग्दृष्टि ५. २६ श. ज्ञानि ६ मतिज्ञानादिचतुष्टय १० नोसंज्ञोपयुक्ता ११ वेदक १२ सकषाय १३ लोभकषायि १४ सयोगि १५ मनोयोग्यादित्रय १८ साकारोपयुक्ता १९ नाकारोपयुक्त २० लक्षणानि, एतेषु च सामान्येन भङ्गकचतुष्कसम्भवेऽप्यचरमत्वात् मनुष्यपदे चतुर्थो नास्ति, चरमस्यैव तद्भावादिति, 'अलेस्से' इत्यादि, अलेश्यादयस्त्रयश्चरमा एव स्युरितिकृत्वेह न प्रष्टव्याः, ज्ञानावरणीयदण्डकोऽप्येवं; नवरं विशेषोऽयं-पापकर्मदण्डके सकषायिलोभकषायिषु आद्यास्त्रयो भङ्गा उक्ताः, इह त्वाद्यौ द्वावेव, न तृतीयः, यत |एते ज्ञानावरणीयमयद्ध्वा पुनर्बन्धका न स्युः, कपायिणां सदैव ज्ञानावरणबन्धकत्वात् , चतुर्थस्त्वचरमत्वादेव न स्यादिति, 'वेय-10 णिज्जे सव्वत्थवि पढमयीय'ति तृतीयचतुर्थयोरसम्भवाद्, एतयोहि प्रथमः प्रागुक्तयुक्तेर्न सम्भवति, द्वितीयस्तु अयोगित्व एव स्यादिति, आयुर्दण्ड के 'अचरमे णं भंते ! नेरइए'त्ति 'पढमतइयभंग'त्ति तत्र प्रथमः प्रतीत एव, द्वितीयस्त्वचरमत्वान्नास्ति, अचरमस्य द्यायुर्वन्धोऽवश्यं भविष्यति, अन्यथा अचरमत्वमेव न स्याद् , एवं न चतुर्थोऽपि, तृतीये तु न बनात्यायुः, तद्वन्धकाले पुनर्भन्स्यति, अचरमत्वादिति, शेषपदानां तु भावना पूर्वोक्तानुसारेण कर्त्तव्येति, 'बंधिसयंति प्रत्युद्देशकं बंधीतिशब्देनोपलक्षितं शतं बन्धिशतं ॥ षड्विंशं शतं वृत्तितः सम्पूर्णम् ॥ अथ सप्तविंशमारभ्यते-'जीवे णं'ति (सू. ८१८) ननु बन्धस्य करणस्य च को विशेषः ?, उच्यते, न कश्चित् , तर्हि किमिति भेदेनोपन्यासः, उच्यते, येयं जीवस्य कर्मबन्धक्रिया सा जीवकर्तृका, न त्वीश्वरादिकृतेत्यस्यार्थस्योपदर्शनार्थ, अथवा

Loading...

Page Navigation
1 ... 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600