Book Title: Bhagwati Sutram
Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 551
________________ श्रीभग लघुवृत्ती ०५ ६उद्देशः स्राणि, ततोऽसावुत्कृष्टसङ्ख्येयकभागहारलब्धेन सहस्रण हीन इति सङ्ख्येयभागहीनः, 'सङ्ख्येयगुणहीणे वत्ति किलैकस || चरणपर्यवाग्रं कल्पनया सहस्रदशकं द्वितीयप्रतियोगिपुलाकचरणपर्यवाग्रं सहस्रं, ततश्चोत्कृष्टसङ्ख्येयकेन कल्पनया दशकपरिमाणेन गुणकारेण गुणितः सहस्रो राशिर्जायते दशसहस्राणि, स च तेनोत्कृष्टसङ्ख्येयकेन कल्पनया दशपरिमाणेन गुणकारेण हीनोऽनभ्यस्त इति सङ्ख्येयगुणहीनः, असंखिजगुणहीणे वत्ति किलैकस्य पुलाकस्य चरणपर्यवाग्रं कल्पनया सहस्रदशकं, द्विती| यप्रतियोगिपुलाकचरणपर्यवाग्रं च द्विशती, ततश्च लोकाकाशप्रदेशपरिमाणेनासङ्ख्येयकेन कल्पनया पश्चाशत्प्रमाणेन गुणकारेण | गुणितो द्विशतिको राशिर्जायते दशसहस्राणि, स च तेन लोकाकाशप्रदेशपरिमाणासख्येयेन कल्पनया पश्चाशत्प्रमाणेन गुणका| रेण हीन इत्यसख्येयगुणहीन इति, अणंतगुणहीणे वत्ति किलैकस्य पुलाकस्य चरणपर्यवाग्रं कल्पनया सहस्रदशकं द्वितीयप्र|तियोगिपुलाकचरणपर्यवाग्रं च शतं, ततश्च सर्वजीवानन्तकेन कल्पनया शतपरिमाणेन गुणकारेण गुणितः शतिको राशिर्जायते दश| सहस्राणि, स च तेन सर्वजीवानन्तकेन कल्पनया शतपरिमाणेन गुणकारेण हीन इत्यनन्तगुणहीनः, एवमभ्यधिकपदस्थानकशब्दार्थोऽप्येभिरेव च भागापहारगुणकाराख्येयः, तथाहि-एकस्य पुलाकस्य कल्पनया दशसहस्राणि चरणपर्यवमानं, तदन्यस्य नवशताधिकानि नव सहस्राणि, ततो द्वितीयापेक्षया प्रथमोऽनन्तभागाभ्यधिकः, तथा यस्य नवसहस्राणि अष्टौ शतानि पर्यवाग्रं तस्मात् प्रथमोऽसख्येयभागाधिकः, तथा यस्य नव सहस्राणि चरणपयवाग्रं तस्मात्प्रथमः सङ्ख्येयभागाधिकः, तथा यस्य चरणपर्यवाग्रं सहस्रमानं तदपेक्षया प्रथमः सङ्ख्येयगुणाधिकः तथा यस्य चरणपर्यवाग्रं द्विशती, तदपेक्षयाऽऽद्योऽनन्तगुणाधिकः । 'पुलाए णं भंते ! बउसेति परठाणसंनिगासेणं ति विजातीययोगमाश्रित्येत्यर्थः, विजातीयश्च पुलाकस्य बकुशाद्धीनः, तथा

Loading...

Page Navigation
1 ... 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600