Book Title: Bhagwati Sutram
Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 562
________________ श्रीभग लघुवृत्तौ २५ श० ७ उद्देश: सङ्कमे पाश्वनाथशिष्यवत् , शिक्षको वा महावतारोपणे, सूक्ष्मसम्परायसाधुत्वं वा प्रतिपद्यते, श्रेणिपतितोऽसंयमादि वा, भावप्रतिपातादिन दिति, तथा छेदोपस्थापनीयसाधुः छेदोपस्थापनीयसाधुत्वं त्यजन् सामायिकसाधुत्वं प्रतिपद्यते यथाऽऽदिदेवतीर्थसाधुरजितस्वामितीथं प्रतिपद्यमानः, परिहारविशुद्धिकसंयतत्वं वा प्रतिपद्यते, छेदोपस्थापनीयंवत एव परिहारविशुद्धिकत्वात् , परिहारविशुद्धिकसाधुत्वं त्यजन् छेदोपस्थापनीयसाधुत्वं प्रतिपद्यते, पुनर्गच्छाद्याश्रयणात् , असंयमंवा प्रतिपद्यते, देवत्वोत्पत्ताविति, तथा सूक्ष्मसम्परायसाधुत्वं प्रतिपातेन त्यजन् सामायिकसाधुत्वं प्रतिपद्यते, यदि पूर्व सामायिकसाधुरभूत् , छेदोपस्थापनीयसाधुत्वं वा प्रतिपद्यते, यदि पूर्व छेदोपस्थापनीयसाधुरभूत , यथाख्यातसाधुत्वं वा प्रतिपद्यते, श्रेणीसमारोहणत इति, तथा यथाख्यातसाधुर्यथाख्यातसाधुत्वं त्यजन् श्रेणीप्रतिपातात सूक्ष्मसम्परायसाधुत्वं प्रतिपद्यते, असंयम वा प्रतिपद्यते, उपशान्तमोहत्वे मरणाद्देवोत्पत्ती, सिद्धिगतिं वोपसम्पद्यते स्नातकत्वे सति । आकर्षद्वारे-धीसपुहुत्तं'ति (सू. ७९७) छेदोपस्थापनीयस्योत्कर्षतो विंशतिपृथक्त्वं-पंचषादिविंशतय आकर्षाणां स्युः, 'उकोसेणं तिण्णि'त्ति परिहारविशुद्धिकसाधुत्वं त्रीन् वारानेकत्र मवे उत्कर्षतः प्रतिपद्यते,'उक्कोसेणं चत्तारित्ति | एकत्र भवे उपशमश्रेणीद्वयसम्भवेन प्रत्येकं सङ्किश्यमानविशुध्यमानलक्षणसूक्ष्मसम्परायद्वयभावाचतस्रः प्रतिपत्तयः सूक्ष्मसम्परायसाधुत्वे स्युः, उक्कोसेणं दोण्णि'त्ति उपशमश्रेणीद्वयसम्भवादिति, नानाभवग्रहणाकर्षाधिकारे 'उक्कोसेणं उवरिं नवण्हं सयाणं अंतोसहस्स'त्ति,कथं ?, किलैकत्र भवग्रहणे षड् विंशतय आकर्षाणां स्युः, ताश्चाष्टाभिर्भवैर्गुणिता १६० अधिकाः स्युः, इदं च सम्भवभात्रमाश्रित्य सङ्ख्याविशेष प्रदर्शनमतोऽन्यथापि यथा नव शतान्यधिकार्यम् ,(नि भवन्ति तथा कार्य) 'उक्कोसेणं सत्त'त्ति कथं , एकत्र भवे तेषां त्रयाणामुक्तत्वाद् भवत्रयस्य च तस्याभिधानादेकत्र भवे त्रयं द्वितीये द्वयं तृतीये द्वयमित्यादि २८०॥

Loading...

Page Navigation
1 ... 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600