Book Title: Bhagwati Sutram
Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text ________________
२६१०
श्रीभग लघुवृत्ती
DAINIONLINADHIMNIDHAISHMISHOCHI
क्षपकमाश्रित्येति योगद्वारे 'सजोगिस्स चउभंगोत्ति अभव्यभव्योपशमकक्षपकाणां चत्वारोऽपि स्युः,'अजोगिस्स चरमोत्ति बध्यमानभन्स्यमानत्वयोस्तस्याभावादिति ॥ 'नेरइएणं' (सू. ८१२) इत्यादौ 'पढमबीय'ति नारकन्यादौ श्रेणीद्वयाभावात् प्रथमद्वितीयावेव, एवं सलेश्यादिपदविशेषितं नारकत्वं वाच्यं, एवमसुरकुमारादिपदमपि 'मणुस्स'त्ति या जीवस्य सामान्यस्य सलेश्यादिपदविशेषितस्य चतुर्भङ्गयादिवक्तव्यता सा तथैव निरवशेषा वाच्या, जीवमनुष्ययोः समानधर्मत्वादिति, तदेवं २५ दण्डकाः पापकर्माश्रित्योक्ताः, एवं (सू. ८१३) ज्ञानावरणीयमप्याश्रित्य २५ दण्डका वाच्याः, 'जीवाणं भंते !' इत्यादि समस्तं प्राग्वद् भावनीयं, पुनर्विशेषमाह-'नवरं ति पापकर्मदण्ड के जीवपदे मनुष्यपदे च यत् सकषायिपदं लोभकषायिपदं च तत्र सूक्ष्मसम्परायस्य मोहाबन्धकत्वे चत्वारोऽपि भङ्गा उक्ताः, इह त्वाद्यावेत्र वाच्यौ, अवीतरागस्य ज्ञानावरणीयबन्धकत्वादिति, एवं दर्शनावरणीयदण्डकाः, वेदनीयदण्डके प्रथमे भङ्गेऽभव्यो द्वितीये भव्यो यो निर्वास्थति, तृतीयो न सम्भवति, वेदनीयं अबद्ध्वा पुनस्तद्वन्धनस्थासम्भवात् , चतुर्थे त्वयोगी, 'सलेसेवि एवं चेव तइयविहूणा भंग'त्ति इह तृतीयस्याभावः प्रागुक्तयुक्त्या ज्ञेयः, चतुर्थः | पुनरिहाभ्युपेतोऽपि सम्यग्नावगम्यते, यतो बन्धी न बंधइ न बंधिस्सइ इत्येतदयोगिन एव सम्भवति, स च सलेश्यो न स्यात् , | केचित्पुनराहुः-अयोगिताप्रथमसमये घण्टालालान्यायेन परमशुक्ललेश्योऽस्तीति सलेश्यस्य चतुर्थभङ्गः सम्भवति, तत्त्वं बहुश्रुतगम्यमिति, कृष्णलेश्यादिपञ्चकेऽयोगित्वस्याभावादाद्यावेव, शुक्ललेश्ये जीवे सलेश्यभाविता भङ्गा वाच्याः, एतदेवाह-'सुक्कलेस्से'त्ति अलेश्यः शैलेशीगतः सिद्धश्च, तस्य च बद्धवान् न बध्नाति न भन्त्स्यतीत्येक एव, 'अलेस्ले ति चरमः 'कण्हपक्खिए पढम| बीए'त्ति कृष्णपाक्षिकस्यायोगित्वाभावात, 'सुक्कपक्खिए तइयविहण'त्ति शुक्लपाक्षिको यसादयोग्यपि स्यादतस्तृतीयविहीनाः
OINDHIOHINIDHI WIDANANOMINATIOHIM
Loading... Page Navigation 1 ... 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600