Book Title: Bhagwati Sutram
Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
२६श०
श्रीभग लघुवृत्ती
अथ षड्विंशतितममारभ्यते-एकादशोदेशकमितषड्विंशतितमे शते प्रत्युद्देशद्वारनिरूपणाय स्थानगाथामाह-'जीवा यत्ति (*१०८) जीवाः प्रत्युद्देशक बन्धवक्तव्यतायाः स्थानं १ तथा लेश्या २ पाक्षिका ३ दृष्टयः ४ ज्ञानं ५ अज्ञानं ६ संज्ञा ७ वेदः ८ कपायाः ९ योगः १० उपयोगश्च ११ बन्धवक्तव्यतास्थानं एवमेकादश स्थानानि इति गाथार्थः॥ 'बंधीति (सू. ८१०) | बद्धवान् 'बंध'त्ति वर्तमाने बंधिस्सइति अनागते, बद्धवानित्येतत्पदलब्धाश्चत्वारो भङ्गाः, नबन्धीत्येतत्पदलभ्यास्त्विह न स्युः, अतीतकालेऽबन्धकस्य जीवस्थासम्भवात् , तत्र बद्धवान् बनाति भत्स्यति चेत्येष प्रथमोऽभव्यमाश्रित्य, बद्धवान् बध्नाति न भत्स्यतीति द्वितीयः प्राप्तव्यक्षपकत्वं भव्यविशेषमाश्रित्य, बद्धवान्न बनाति भंस्थतीत्येष तृतीयो मोहोपशमे वर्तमानं भव्यमाश्रित्य, ततः प्रतिपतितस्य तस्य पापकर्मणोऽवश्यं बद्धवान् बनाति न भंस्थतीति चतुर्थः क्षीणमोहमाश्रित्येति, लेश्याद्वारे-सलेश्यजीवस्य चत्वारोऽपि स्युः, यस्मात् शुक्ललेश्यस्य पापकर्मणोऽबन्धकत्वमप्यस्तीति, कृष्णलेश्यादिपञ्चकयुक्तस्य त्वाद्यमेव भङ्गद्वयं, तस्य हि वर्तमानकालिको मोहलक्षणपापकर्मण उपशमः क्षयो वा नास्तीति अन्त्यद्वयाभावः, द्वितीयस्तु तस्य सम्भवति, कृष्णादिलेश्यावत: कालान्तरे क्षपकत्वप्राप्तौ न भंस्यतीत्येतस्य सम्भवादिति, अलेश्योऽयोगिकेवली तस्य च चतुर्थ एव, लेश्याभावे बन्धकत्वाभावादिति। पाक्षिकद्वारे-कृष्णपाक्षिकस्याद्यमेव भङ्गद्वयं, वर्तमाने बन्धाभावस्य तस्याभावादिति, शुक्लपाक्षिकस्य तु चत्वारोऽपि, स हि बद्धवान् बन्नाति भन्त्स्यतीति प्रश्नसमयापेक्षया अनन्तरे भविष्यति समये १ तथा बद्धवान् वनातिन भन्स्यतिक्षपकत्व प्राप्तौ २ तथा बद्धवान् न बनाति उपशमे भन्स्यति च तत्प्रतिपाते ३ तथा बद्धवान् न बध्नाति न भन्स्यति च क्षपकत्वे इति ४ । अत आह'चउभंगो भाणियब्वोति ननु यदि कृष्णपाक्षिकस्य न भन्स्यतीत्यस्य सम्भवात् द्वितीयो भङ्गक इष्टस्तदा शुक्लपाक्षिकस्या