Book Title: Bhagwati Sutram
Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 569
________________ श्रीभग लघुवृत्तों २५० ७ उद्देशः अर्थाद् व्यञ्जने व्यञ्जनादर्थे मनःप्रभृतियोगानां चान्यस्मादन्यस्मिन् विचरणं सह विचारेण यत्तत् सविचारि१, एगत्तवियकत्ति एकत्वेन-अभेदेनोत्पादादिपर्यायाणामन्यतमैकपर्यायालम्बनतयेत्यर्थो वितर्कः-पूर्वगतश्रुताश्रयो व्यञ्जनरूपोऽर्थरूपो वा यस्य तदेकत्ववितर्क, तथा न विद्यते विचारोऽर्थव्यञ्जनयोरितरस्मादितरत्र तथा मनःप्रभृतीनां योगानामन्यस्मादन्यत्र यस्य तदविचारीति २] 'सुहुमकिरिए अणियहि'त्ति सूक्ष्मा क्रिया यत्र निरुद्धवाङ्मनोयोगत्वे सत्यर्द्धनिरुद्धकाययोगत्वात् तत् सूक्ष्मनियं, न निवर्तत | इत्यनिवर्ति वर्द्धमानपरिणामत्वाद् , एतच्च निर्वाणगमनकाले केवलिन एव स्यादिति ३ 'समुच्छिण्णकिरिए अप्पडिवाइ'त्ति | समुच्छिन्ना क्रिया-कायिक्यादिका शैलेशीकरणे निरुद्धयोगत्वेन यस्मिंस्तत्तथा अप्रतिपाति-अनुपरतस्वभावं ४ 'अव्वहे'त्ति देवाधुपसर्गजनितं भयं चलनं वा व्यथा तदभावोऽव्यथं १,'असम्मोहे'त्ति देवादिकृतमायाजनितस्य सूक्ष्मपदार्थविषयस्य च सम्मोहस्य मृढताया निषेधोऽसम्मोहः,२'विवेगेत्ति देहाद् आत्मनः आत्मनो वा सर्वसंयोगानां विवेचनं-पृथक्करणं विवेकः३'विउस्सग्गेत्ति व्युत्सर्गो-निःसङ्गता देहोपधित्यागः ४'अणंतवत्तियाणुप्पेहेत्ति भवसन्तानस्यानन्तवृत्तितानुचिंतनं १'विप्परिणामाणुप्पेह'त्ति वस्तूनां प्रतिक्षणं नानापरिणामगमनानुचिन्तनं २ 'असुभाणुप्पेह'त्ति संसाराशुभत्वानुचिन्तनं, अवायाणुप्पेह'त्ति अपायानांप्राणातिपातायाश्रवद्वारजानानामनुप्रेक्षा-अनुचिन्तनमपायानुप्रेक्षा ४ । उत्सर्गसूत्रे 'संसारविउस्स'त्ति (सू.८०४) नारका| युष्कादिहेतूनां मिथ्यादृष्टित्वादीनां त्यागः, 'कम्मविउस्स'त्ति ज्ञानावरणादिकर्मबन्धहेतूनां ज्ञानप्रत्यनीकत्वादीनां त्याग इति ॥२५ शते सप्तमः॥ 'पवए'त्ति (सू. ८०५) प्लवकः-उत्प्लवनकारी 'पवमाणे'त्ति प्लवमानः- उत्प्लुतिं कुर्वन् , 'अज्झवसाणनिव्वत्तिए'त्ति उत्प्लो பாபா போ யாப்பமரம் பாபா

Loading...

Page Navigation
1 ... 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600