________________
श्रीभग
लघुवृत्तों
२५० ७ उद्देशः
अर्थाद् व्यञ्जने व्यञ्जनादर्थे मनःप्रभृतियोगानां चान्यस्मादन्यस्मिन् विचरणं सह विचारेण यत्तत् सविचारि१, एगत्तवियकत्ति एकत्वेन-अभेदेनोत्पादादिपर्यायाणामन्यतमैकपर्यायालम्बनतयेत्यर्थो वितर्कः-पूर्वगतश्रुताश्रयो व्यञ्जनरूपोऽर्थरूपो वा यस्य तदेकत्ववितर्क, तथा न विद्यते विचारोऽर्थव्यञ्जनयोरितरस्मादितरत्र तथा मनःप्रभृतीनां योगानामन्यस्मादन्यत्र यस्य तदविचारीति २] 'सुहुमकिरिए अणियहि'त्ति सूक्ष्मा क्रिया यत्र निरुद्धवाङ्मनोयोगत्वे सत्यर्द्धनिरुद्धकाययोगत्वात् तत् सूक्ष्मनियं, न निवर्तत | इत्यनिवर्ति वर्द्धमानपरिणामत्वाद् , एतच्च निर्वाणगमनकाले केवलिन एव स्यादिति ३ 'समुच्छिण्णकिरिए अप्पडिवाइ'त्ति | समुच्छिन्ना क्रिया-कायिक्यादिका शैलेशीकरणे निरुद्धयोगत्वेन यस्मिंस्तत्तथा अप्रतिपाति-अनुपरतस्वभावं ४ 'अव्वहे'त्ति देवाधुपसर्गजनितं भयं चलनं वा व्यथा तदभावोऽव्यथं १,'असम्मोहे'त्ति देवादिकृतमायाजनितस्य सूक्ष्मपदार्थविषयस्य च सम्मोहस्य मृढताया निषेधोऽसम्मोहः,२'विवेगेत्ति देहाद् आत्मनः आत्मनो वा सर्वसंयोगानां विवेचनं-पृथक्करणं विवेकः३'विउस्सग्गेत्ति व्युत्सर्गो-निःसङ्गता देहोपधित्यागः ४'अणंतवत्तियाणुप्पेहेत्ति भवसन्तानस्यानन्तवृत्तितानुचिंतनं १'विप्परिणामाणुप्पेह'त्ति वस्तूनां प्रतिक्षणं नानापरिणामगमनानुचिन्तनं २ 'असुभाणुप्पेह'त्ति संसाराशुभत्वानुचिन्तनं, अवायाणुप्पेह'त्ति अपायानांप्राणातिपातायाश्रवद्वारजानानामनुप्रेक्षा-अनुचिन्तनमपायानुप्रेक्षा ४ । उत्सर्गसूत्रे 'संसारविउस्स'त्ति (सू.८०४) नारका| युष्कादिहेतूनां मिथ्यादृष्टित्वादीनां त्यागः, 'कम्मविउस्स'त्ति ज्ञानावरणादिकर्मबन्धहेतूनां ज्ञानप्रत्यनीकत्वादीनां त्याग इति ॥२५ शते सप्तमः॥ 'पवए'त्ति (सू. ८०५) प्लवकः-उत्प्लवनकारी 'पवमाणे'त्ति प्लवमानः- उत्प्लुतिं कुर्वन् , 'अज्झवसाणनिव्वत्तिए'त्ति उत्प्लो
பாபா போ யாப்பமரம் பாபா