Book Title: Bhagwati Sutram
Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 568
________________ श्रीभग लघुवृत्ती २५० ७ उद्देशः | इत्यर्थः, 'अब्भासवत्तियति अभ्यासो-गौरवस्य समीपं तत्र वत्ती. तद्भावोऽभ्यासवर्तित्व 'परच्छन्दाणुवत्तियति परस्य आराध्यस्य छन्द:-अभिप्रायस्तस्यानुवर्ती तद्भावस्तत्वं 'कजहे'ति कार्यहेतोः ज्ञानादिनिमित्तं, भक्तादिदानमिति गम्यं, 'कय|पडिकइया' कृतप्रतिकृतता नाम विनयात् प्रसादिता गुरवः श्रुतं दास्यन्तीत्यभिप्रायेणाशनादिदानप्रयत्नः, 'अत्तगवेसणय'त्ति | आतॊ ग्लानस्तं गवेषयति भैषज्यादिना यः स आर्तगवेषणस्तद्भाव आर्तगवेषणता। ध्यानसूत्रे 'अमणुण्णसंपओगसंपउत्ते'त्ति | (सू. ८०३) अमनोज्ञः शब्दादिस्तस्य सम्प्रयोगो-योगस्तेन सम्प्रयुक्तः तस्यामनोज्ञशब्दादेवियोगस्मृतिसमन्वागतश्चापि स्यात् 'कंदणय'त्ति महता शब्देन विरवणं 'सोयण'त्ति दीनता 'तिप्पणय'त्ति तेपनता तिपः क्षरणार्थत्वादश्रुमोचनं 'परिदेवणय'त्ति परिदेवनता पुनः २ क्लिष्टभाषणता 'तेयाणुबंधि'त्ति स्तेयं-चौर्य तदनुबन्धवत् स्तेयानुबन्धि 'सारक्खणाणुबंधि'त्ति सर्वोपायैधनधान्यादिसंरक्षणं तदनुबन्धि संरक्षणानुबन्धि, 'उसण्णदोसे'त्ति प्रायोऽविरतत्वेन हिंसानृतादत्तादीनामन्यतमो दोषः, बहुदोसेत्ति | हिंसादिषु ४ बहुषु सर्वेष्वपि दोषः, 'आमरणंतदोसे'त्ति कालशौकरिकादेरिव या हिंसाप्रवृत्तिम॒तिं यावत् सैव दोषः आमर| णान्तदोपः 'चउप्पडोयारेति चतुर्यु भेद १ लक्षण २ आलम्बन ३ अनुप्रेक्षा ४ लक्षणेषु पदार्थेषु प्रत्यवतार:-समवतारो विचा| रणीयत्वेन यस्य तच्चतुष्प्रत्यवतारं, चतुर्विधशब्दस्यैव पर्यायोऽयं वाच्यः। (धर्म) ध्यानसूत्रे 'आणाविजए'त्ति आज्ञा जिनप्रवचनं | तस्या विचयो-निर्णयो यत्र तदाज्ञाविचयं, प्राकृतत्वाचाणाविजयेत्ति१,'अवायविजए'त्ति रागादिजन्या अपाया-अनर्थाः२'विवायत्ति विपाकः-कर्मफलं ३ संस्थानानि-लोकद्वीपसमुद्राद्याकृतयः 'पुहुत्तवियक्कसवियारे'त्ति पृथक्त्वेन एकद्रव्यमाश्रितानामुत्पादादिपर्यायाणां भेदेन वितर्को-विकल्पः पूर्वगतश्रुतालम्बनो नानानयानुसरणलक्षणो यत्र तत् पृथक्त्ववितर्क, तथा विचार:

Loading...

Page Navigation
1 ... 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600