________________
श्रीभग लघुवृत्तौ
२५ श० ७ उद्देश:
सङ्कमे पाश्वनाथशिष्यवत् , शिक्षको वा महावतारोपणे, सूक्ष्मसम्परायसाधुत्वं वा प्रतिपद्यते, श्रेणिपतितोऽसंयमादि वा, भावप्रतिपातादिन दिति, तथा छेदोपस्थापनीयसाधुः छेदोपस्थापनीयसाधुत्वं त्यजन् सामायिकसाधुत्वं प्रतिपद्यते यथाऽऽदिदेवतीर्थसाधुरजितस्वामितीथं प्रतिपद्यमानः, परिहारविशुद्धिकसंयतत्वं वा प्रतिपद्यते, छेदोपस्थापनीयंवत एव परिहारविशुद्धिकत्वात् , परिहारविशुद्धिकसाधुत्वं त्यजन् छेदोपस्थापनीयसाधुत्वं प्रतिपद्यते, पुनर्गच्छाद्याश्रयणात् , असंयमंवा प्रतिपद्यते, देवत्वोत्पत्ताविति, तथा सूक्ष्मसम्परायसाधुत्वं प्रतिपातेन त्यजन् सामायिकसाधुत्वं प्रतिपद्यते, यदि पूर्व सामायिकसाधुरभूत् , छेदोपस्थापनीयसाधुत्वं वा प्रतिपद्यते, यदि पूर्व छेदोपस्थापनीयसाधुरभूत , यथाख्यातसाधुत्वं वा प्रतिपद्यते, श्रेणीसमारोहणत इति, तथा यथाख्यातसाधुर्यथाख्यातसाधुत्वं त्यजन् श्रेणीप्रतिपातात सूक्ष्मसम्परायसाधुत्वं प्रतिपद्यते, असंयम वा प्रतिपद्यते, उपशान्तमोहत्वे मरणाद्देवोत्पत्ती, सिद्धिगतिं वोपसम्पद्यते स्नातकत्वे सति । आकर्षद्वारे-धीसपुहुत्तं'ति (सू. ७९७) छेदोपस्थापनीयस्योत्कर्षतो विंशतिपृथक्त्वं-पंचषादिविंशतय आकर्षाणां स्युः, 'उकोसेणं तिण्णि'त्ति परिहारविशुद्धिकसाधुत्वं त्रीन् वारानेकत्र मवे उत्कर्षतः प्रतिपद्यते,'उक्कोसेणं चत्तारित्ति | एकत्र भवे उपशमश्रेणीद्वयसम्भवेन प्रत्येकं सङ्किश्यमानविशुध्यमानलक्षणसूक्ष्मसम्परायद्वयभावाचतस्रः प्रतिपत्तयः सूक्ष्मसम्परायसाधुत्वे स्युः, उक्कोसेणं दोण्णि'त्ति उपशमश्रेणीद्वयसम्भवादिति, नानाभवग्रहणाकर्षाधिकारे 'उक्कोसेणं उवरिं नवण्हं सयाणं अंतोसहस्स'त्ति,कथं ?, किलैकत्र भवग्रहणे षड् विंशतय आकर्षाणां स्युः, ताश्चाष्टाभिर्भवैर्गुणिता १६० अधिकाः स्युः, इदं च सम्भवभात्रमाश्रित्य सङ्ख्याविशेष प्रदर्शनमतोऽन्यथापि यथा नव शतान्यधिकार्यम् ,(नि भवन्ति तथा कार्य) 'उक्कोसेणं सत्त'त्ति कथं , एकत्र भवे तेषां त्रयाणामुक्तत्वाद् भवत्रयस्य च तस्याभिधानादेकत्र भवे त्रयं द्वितीये द्वयं तृतीये द्वयमित्यादि
२८०॥