SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्तौ स्यात् 'नवरं सुहुमसंपराए'त्ति सूक्ष्मसम्परायः साकारोपयुक्तस्तथास्वभावत्वादिति । लेश्याद्वारे - यथाख्यात साधुस्स्नातकसदृगुक्तः, स्नातकच सलेश्योऽलेश्यो वा, यदि भवेत् तदा परशुक्ललेश्यः स्यादित्युक्तं यथाख्यात साधोस्तु निर्ग्रन्थत्वापेक्षया निर्विशेषणापि शुक्ललेश्या स्यादतोऽस्य विशेषमाह - 'नवरं जई' त्यादि । परिणामद्वारे - 'मुहुम संपराए'त्ति (सू. ७९३) 'वहुमाणपरिणामेत्ति सूक्ष्मसम्परायसाधुः श्रेणीं समारोहन् वर्द्धमानपरिणामस्ततो भ्रश्यन् हीयमानपरिणामः, अवस्थितपरिणामस्त्वसौ न स्यात्, गुणस्थानस्वभावत्वादिति, तथा 'सुहुमसंपरायसंजए णं भंते! केवइयं कालं'ति 'जहण्णेणं एवं समयं 'ति सूक्ष्मसम्परायस्य जघन्यतो वर्द्धमानपरिणाम एकसमयं प्रतिपत्तिसमयानन्तरमेव मरणात्, 'उक्को से गं अंतोमुहुत्तं'ति तद्गुणस्थानकस्यैतावत्प्रमाणत्वात्, एवं तस्य हीयमानपरिणामोऽपि वाच्यः, 'अह्वायसंजय णं भंते' त्ति 'जवणेणं अंतोमुहुत्तं उक्कोसेणंतोमुहुत्तं 'ति यो यथाख्यातसाधुः केवलज्ञानमुत्पादयिष्यति यश्च शैलेशी प्रतिपन्नस्तस्य वर्द्धमानपरिणामो जघन्यत उत्कर्षतश्चान्तमुहूर्त्त तदुत्तरकालं तद्व्यवच्छेदात्, अवस्थित परिणामस्तु जघन्येनैकं समयं, उपशमाद्धायाः प्रथमसमयानन्तरमेव मरणात् 'उक्को० देसूणा पुव्वकोडि'ति एतच्च प्राग्वद्भाव्यं । बन्धद्वारे 'छ कम्मपयडीओ बंधइ'त्ति (सू. ७१४) सूक्ष्मसम्पराय साधुस्त्वायुर्न नात्यप्रमत्तान्तत्वात् तद्भन्धस्य, मोहनीयं च बादरकपायोदयाभावान्न बभ्रातीति तद्वर्जपट्कर्म प्रकृतीभातीति । वेदद्वारे - 'सत्तविहवेयर वा चउविहवेयए वत्ति यथाख्यातसाधुर्निर्ग्रन्थावस्थायां मोहवर्जानां सप्तानां कर्म्मप्रकृतीनां वेदको मोहनीयस्योपशान्तत्वात् क्षीणत्वाद्वा, स्नातकावस्थायां तु चतसृणामेव, घातिकर्मप्रकृतीनां तस्य क्षीणत्वात् । उपसंपद्वारे - 'सामाइय संजए णं' ति (सू. ७९५) सामायिक साधुस्सामायिकसंयतत्वं त्यजति छेदोपस्थापनीयसंयतत्वं प्रतिपद्यते, चतुर्यामधर्मात् पञ्चयामधर्म DO २५ श० ७ उद्देशः
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy