________________
श्रीभग.
लघुवृत्ती
२५० ७ उद्देशः
त्रत्वात् । ज्ञानद्वारे 'अहक्खायसंजयस्स पंच नाणाई भयणाए'त्ति 'जहा नाणुद्देसए'त्ति इह च ज्ञानोदेशकोऽष्टमशते द्वितीयोद्देशकस्य ज्ञानवक्तव्यतार्थमेवान्तरप्रकारः, भजना पुनः केवलिनो यथाख्यातचारित्रिणः केवलज्ञानं छद्मस्थवीतरागयथाख्यातचारित्रिणो द्वे वा त्रीणि वा चत्वारि वा ज्ञानानि भवन्ति एवंरूपा, श्रुताधिकारे यथाख्यातसंयतो यदि निर्ग्रन्थस्त दाऽष्टप्रवचनमात्रादिचतुर्दशपूर्वान्तं श्रुतं, यदि तु स्नातकस्तदा श्रुतातीतः, अत एवाह-'जहण्णेणमट्ठप्पवयणमायाओ'त्ति। कालद्वारे (सू. ७८९) 'एवं छेदोवट्ठावणिए'त्ति अनेन बकुशसमः कालतः छेदोपस्थापनीयः साधुरुक्तः, तत्र बकुशस्योत्सर्पिणीव्यतिरिक्तकाले जन्मतः सद्भावतश्च सुषमसुषमादिप्रतिभागत्रये निषेध उक्तः, दुष्पमसुषमाप्रतिभागे च विधिः, छेदोपस्थापनीयसंयतस्यं तु तेत्रापि तनिषेधार्थमाह-'नवर मित्यादि। संयमस्थानद्वारे 'सुहुमसंपराए'त्ति (सू. ८९१) 'असंखिजा अंतोमुहुत्तिया' अन्तर्मुहूर्ते भवान्यान्तर्मुहूर्तिकानि, अन्तर्मुहूर्त्तमांना हि तदद्धा, तस्याश्च प्रतिसमयं चरणविशुद्धिविशेषभावादसङ्ख्येयानि तानि स्युः, यथाख्यातें त्वेकमेव तदद्धायाश्चरणविशुद्धेनिविशेषत्वादिति । संयमस्थानानि एकविंशतिः, तत्रैकमुपरितनं यथाख्यातस्य, ततोऽधस्तनानि सूक्ष्मसम्परायस्य तानि च तस्मादसङ्ख्येयगुणानि दृश्यानि, तेभ्योऽधश्चत्वारि त्यक्त्वाऽन्येऽष्टौ परिहारिकस्य, तानि पूर्वेभ्योऽसङ्ख्येयगुणानि दृश्यानि, ततस्त्यक्त्वा तानि यानि चत्वार्यष्टौ च प्रागुक्तानि तेभ्योऽन्यानि च चत्वारीत्येवं तानि पोडश सामायिकच्छेदोपस्थापनीयसंयतयोः, पूर्वेभ्यश्चैतान्यसङ्ख्यातगुणानीति । सन्निकर्षद्वारे-'सामाइयसंजए णं भंते ! सामाइयसंजयस्स'त्ति (सू. ७९२) 'सिय-हीणे'त्ति, असोतानि तस्य संयमस्थानानि, तत्र यदैको हीनशुद्धिकोऽन्यस्त्वितरत्र वर्तते तदाऽल्पः, हीनाधिकत्वे च षट्स्थानपतितत्वं स्यादत आह-'छट्ठाणवडिए'त्ति । उपयोगद्वारे-सामायिकसंयतादीनां पुलाकवदुपयोगद्वयं
॥२७९॥