SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्तौ त्वाद्यावत्कथिकः, स च मध्यमजिनमहा विदेह जिन सत्क साधुः, 'साइया रे'त्ति सातिचारस्य यदारोप्यते तत्सातिचारमेव छेदोपस्थापनीयं तद्योगात् साधुरपि सातिचार एव, एवं निरतिचारच्छेदोपस्थापनीययोगान्निरतिचारः, स च विनेयः, पार्श्वनाथतीर्थात् वीरतीर्थसङ्क्रान्तौ वा, छेदोपस्थापनीयसाधुश्च प्रथमपश्चिमतीर्थयोरेव स्यादिति । 'निश्विसमाणे'त्ति परिहारितपस्तपस्यन् 'निविइकाइए 'त्ति, निर्विशमानकानुचरका इत्यर्थः, 'संकि लिस्स माणए' त्ति उपशमश्रेणीतः प्रच्यवमानः, 'वि सुज्झमाणए'त्ति उपशमश्रेणीं क्षपकश्रेणीं वा समारोहन्, 'छउ प्रत्थे केवली य'त्ति व्यक्तं । अथ सामायिक संयतादीनां स्वरूपं गाथाभिराह - 'सामाइयंमि उ' गाहा (९८) कण्ठ्या, 'छेदोवडावणे' त्ति (९९) छेदेन - पूर्व पर्यायच्छेदेनोपस्थानं व्रतेषु यत्र तच्छेदोपस्थापनं यद्योगात् छेदोपस्थानः, स च सातिचार इतरश्च स्यात्, 'परिहरइ' गाहा (१००) परिहरति-निर्विशमानकादिभेदं तप आसेवते यः साधुः। 'लोभाणु० ' (१०१) लोभाणून- लोभलक्षणकषायसूक्ष्म किटिकाः वेदयन् यो वर्त्तते 'उवसंते' गाहा (१०२) उपशान्ते मोह - नीयकर्मणि यः छद्मस्थः क्षीणे वा यः छद्मस्थो जिनो वा वर्त्तते स यथाख्यातसंयम इति । वेदद्वारे (व. ७८७) सामायिकसंयुतः अवेदकोऽपि स्यात् नवमगुणस्थानके हि वेदस्योपशमः क्षयो वा स्यात्, नवमगुणस्थानकं यावत् सामायिकसंयतो व्यपदिश्यते, सामायिकसंय तस्स वेदस्त्रिवेदोऽप्यवेदश्यं स्यात्, अवेदस्तु क्षीणोपशान्तवेद इत्यर्थः, 'परिहारविसुद्धी यत्ति पुरुषवेदो वा पुरुषनपुंसक वेदों वा स्यादिति, 'सुहुम संपराए' ति क्षीणोपशान्तवेदत्वेनावेद इत्यर्थः एवमन्यान्यपि अतिदेशमूत्राण्यनन्तरोद्देश कानुसारेण स्वयं ज्ञेयानि । कल्पद्वारे 'अट्ठियकप्पे 'त्ति अस्थितकल्पो हि मध्यमजिनमहाविदेहजिनतीर्थेषु स्यात्, तत्र छेदोपस्थापनीयं नास्ति चारित्रद्वारमाश्रित्येदमुक्तं । 'सामाइयसंजए णं भंते! किं पुलाए' इत्यादि (सु. ७८८) पुलाकादिपरिणामस्य चारि २५ श० ७ उद्देशः
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy