SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ श्रीभग लघुवृत्ती २५० ७ उद्देशः विकल्पतः सप्ताकर्षाः परिहारिकविशुद्धिकस्येति, 'उको नवत्ति, कथं ?, सूक्ष्मसम्परायस्यैकत्र भवे आकर्षचतुष्कस्योक्तत्वाद्भवत्रयस्य च तस्याभिधानादेकत्र चत्वारो द्वितीये चत्वारस्तृतीये चैक इत्येवं ९ । 'उकोसेणं पंचत्ति, कथं, यथाख्यातसाधोरेकभवे द्वाबाको द्वितीये च द्वावाकर्षावकत्र चैक इत्येवं पञ्च । कालद्वारे-'सामाइए'त्यादि (सू.७९८).सामायिकप्रतिपत्तिसमयसमनन्तरमेव मरणादेकः समयः 'उक्कोसेणं देसूणेहिंति इति यदुक्तं तद् गर्भसमयादारभ्य ज्ञेयं, अन्यथा जन्मदिनापेक्षयाऽष्टवर्षोनिकैव सा स्यात् , 'परिहारविसुद्धीए जहण्णेणं समयं ति मरणापेक्षमेतत् , 'उक्कोसेणं देसूणरहिति अस्यायमोंदेशोननववर्षजन्मपर्यायेण केनापि पूर्वकोट्यायुषा प्रव्रज्या प्रतिपन्ना, तस्य च विंशतिवर्षप्रव्रज्यापर्यायस्य दृष्टिंवादोऽनुज्ञातः, ततश्चासौ परिहारविशुद्धिकं प्रतिपन्नः, तच्चाष्टादशमासमानमप्यविच्छिन्नतत्परिणामेन तेनाजन्म पालितमित्येवमेकोनत्रिंशद्वर्षोनां पूर्वकोटीं यावत्तत्स्यादिति, 'अहकावाए जहा सामाइयसंजए'त्ति तत्र जघन्यतः एकसमयमुपशमावस्थायां मरणात् उत्कर्षतो देशानां पूर्वकोटी स्नातकयथाख्यातापेक्षयेति, पृथक्त्वेन कालचिन्तायां 'छेओवट्ठावणिए'त्ति तत्रोत्सपिण्यामादितीर्थकरस्य तीर्थ | यावच्छेदोपस्थापनीयं स्यात् , तीर्थं च तस्य साढ़े द्वे वर्षशते स्यादत उक्तम् 'अद्धाइजाई ति, तथाऽवसर्पिण्यामादिजिनतीर्थ यावच्छेदोपस्थापनीयं स्यात् , तच्च ५० सागरोपमकोटीलक्षा इत्यत उक्कोसेणं पण्णासमित्यायुक्तं, परिहारविशुद्धिकालो जघन्येन 'देसूणाईति, कथं ?, उत्सर्पिण्यामाद्यजिनान्तिकं कश्चिद्वर्षशतायुः परिहारविशुद्धिकं श्रितः, तस्यान्तिके तज्जीवितान्तेऽन्यो वर्षशतायुरेव, ततः परतो न तस्य प्रतिपत्तिरस्तीत्येवं द्वे वर्षशते, तयोश्च प्रत्येकमेकोनत्रिंशद्वर्षेषु तत्प्रतिपत्तिरेवमष्टपश्चाशता वर्षेन्यूने ते इति देशोने इत्युक्तं, एतच्च टीकाकारव्याख्यानं, चूर्णिकारव्याख्यानमप्येवमेव, किन्त्ववसपिण्यन्तिमजिनापेक्षमिति विशेषः,
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy