Book Title: Bhagwati Sutram
Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 560
________________ श्रीभग. लघुवृत्ती २५० ७ उद्देशः त्रत्वात् । ज्ञानद्वारे 'अहक्खायसंजयस्स पंच नाणाई भयणाए'त्ति 'जहा नाणुद्देसए'त्ति इह च ज्ञानोदेशकोऽष्टमशते द्वितीयोद्देशकस्य ज्ञानवक्तव्यतार्थमेवान्तरप्रकारः, भजना पुनः केवलिनो यथाख्यातचारित्रिणः केवलज्ञानं छद्मस्थवीतरागयथाख्यातचारित्रिणो द्वे वा त्रीणि वा चत्वारि वा ज्ञानानि भवन्ति एवंरूपा, श्रुताधिकारे यथाख्यातसंयतो यदि निर्ग्रन्थस्त दाऽष्टप्रवचनमात्रादिचतुर्दशपूर्वान्तं श्रुतं, यदि तु स्नातकस्तदा श्रुतातीतः, अत एवाह-'जहण्णेणमट्ठप्पवयणमायाओ'त्ति। कालद्वारे (सू. ७८९) 'एवं छेदोवट्ठावणिए'त्ति अनेन बकुशसमः कालतः छेदोपस्थापनीयः साधुरुक्तः, तत्र बकुशस्योत्सर्पिणीव्यतिरिक्तकाले जन्मतः सद्भावतश्च सुषमसुषमादिप्रतिभागत्रये निषेध उक्तः, दुष्पमसुषमाप्रतिभागे च विधिः, छेदोपस्थापनीयसंयतस्यं तु तेत्रापि तनिषेधार्थमाह-'नवर मित्यादि। संयमस्थानद्वारे 'सुहुमसंपराए'त्ति (सू. ८९१) 'असंखिजा अंतोमुहुत्तिया' अन्तर्मुहूर्ते भवान्यान्तर्मुहूर्तिकानि, अन्तर्मुहूर्त्तमांना हि तदद्धा, तस्याश्च प्रतिसमयं चरणविशुद्धिविशेषभावादसङ्ख्येयानि तानि स्युः, यथाख्यातें त्वेकमेव तदद्धायाश्चरणविशुद्धेनिविशेषत्वादिति । संयमस्थानानि एकविंशतिः, तत्रैकमुपरितनं यथाख्यातस्य, ततोऽधस्तनानि सूक्ष्मसम्परायस्य तानि च तस्मादसङ्ख्येयगुणानि दृश्यानि, तेभ्योऽधश्चत्वारि त्यक्त्वाऽन्येऽष्टौ परिहारिकस्य, तानि पूर्वेभ्योऽसङ्ख्येयगुणानि दृश्यानि, ततस्त्यक्त्वा तानि यानि चत्वार्यष्टौ च प्रागुक्तानि तेभ्योऽन्यानि च चत्वारीत्येवं तानि पोडश सामायिकच्छेदोपस्थापनीयसंयतयोः, पूर्वेभ्यश्चैतान्यसङ्ख्यातगुणानीति । सन्निकर्षद्वारे-'सामाइयसंजए णं भंते ! सामाइयसंजयस्स'त्ति (सू. ७९२) 'सिय-हीणे'त्ति, असोतानि तस्य संयमस्थानानि, तत्र यदैको हीनशुद्धिकोऽन्यस्त्वितरत्र वर्तते तदाऽल्पः, हीनाधिकत्वे च षट्स्थानपतितत्वं स्यादत आह-'छट्ठाणवडिए'त्ति । उपयोगद्वारे-सामायिकसंयतादीनां पुलाकवदुपयोगद्वयं ॥२७९॥

Loading...

Page Navigation
1 ... 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600