Book Title: Bhagwati Sutram
Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 557
________________ श्रीभग २५० ६ उद्देशः लघुत्तों wimmunanamunaruwnar nathuntanisimanawimarginnarismissimilailim பாயா மாயாமாமா யப்பா பார்பா णसम्भवात् 'उको० अंतोमुहत्त'ति निग्रन्थाद्धाया एतत्प्रमाणत्वादिति, सिणायए णं'ति 'जह अंतोमुहत्तं'ति आयुष्कान्ति-| मान्तर्मुहः केवलोत्पत्तावन्तर्मुहर्त जघन्यः स्नातककालः स्यादिति ।। पुलाकादीनामेकत्वेन कालमानं प्रोक्तं, अथ पृथक्वेनाह-'पुलायाणं'ति जघन्येनैकं समयमिति, कथं ?; पुलाकस्सैकस्य योऽन्तर्मुहूर्त्तकालस्तस्यान्तसमयेऽन्यः पुलाकत्वं प्रतिपन्न इत्येवं जघन्यत्वविवक्षया द्वयोः पुलाकयोरेकत्र समये सद्भावोऽस्ति, द्वित्वे च जघन्यं पृथक्त्वं स्यादिति, उ मो० अंतोमुहुत्तं'ति यद्यपि पुलाका उत्कर्षतः एकदा सहस्रपृथक्त्वप्रमिताः प्राप्यन्ते, तथाऽप्यन्तर्मुहूर्तत्वात्तदद्धाया बहुत्वेऽपि तेषामन्तर्मुहुर्तमेव तत्कालः, केवलं बहूनां स्थितौ यदन्तर्मुहूतं तदेकपुलाकस्थित्यन्तर्मुहर्तान्महत्तरमिति ज्ञेयं, बकुशादीनां तु स्थितिकालः सर्वाद्धा, प्रत्येकं तेषां बहुस्थितिकत्वादिति, नियंठा जह पुलाय'त्ति तचैव-जघन्येनैकं समयमुत्कृष्टतोऽन्तर्मुहूर्त्तमिति । अन्तरद्वारे-'पुलागस्सणं'ति (सू .७८०) तत्र पुलाकः पुलाको भूत्वा कियता कालेन पुलाकत्वमापद्यते ?, उच्यते, जघन्यतोऽन्तर्मुहूर्त स्थित्वा पुनः पुलाक एवं स्यात् , उन्कर्षतः पुनरनन्तेन कालेन पुलाकत्वमामोति, कालानन्त्यमेव कालतो नियमयन्नाह-'अर्णताउ'त्ति, इदमेव क्षेत्रत आह-'खेत्त ओ'ति स चानन्तः कालः क्षेत्रतो मीयमानः किमान इत्याह-'अवडू'मिति, तत्र पुद्गलपरावर्त एवं श्रूयते-किल केनापि प्राणिना प्रतिप्रदेशं म्रियमाणेन मरणैर्यावता कालेन लोकः समस्तोऽपि व्याप्यते तावता क्षेत्रतः पुद्गलपरावतः स्यात् , स च समग्रोऽपि स्यादत आह-अपार्दू, अर्द्धमात्रमित्यर्थः, अथार्थोऽप्यर्द्धतः पूर्णः स्यादत आह-देसूर्ण'ति देशेन-भागेन न्यूनमिति, सिणायस्स नत्थि अंतरं'ति प्रतिपाताभावात् , एकत्वापेक्षया पुलाकादीनामन्तरमुक्तं, अथ पृथक्त्वापेक्षया तदेवाह-'पुलायाणं'ति इति व्यक्तं । समुद्घातद्वारे 'कसायसमुग्घाए नि (सू. ७८०) चरित्रवतां सङ्घलनकषायोदयसम्भवेन कषायोदयसमुद्घातः स्यादिति,

Loading...

Page Navigation
1 ... 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600