Book Title: Bhagwati Sutram
Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text ________________
श्रीभग
शेषेषु त्रिषु एवं माने विगते द्वयोःमायायां तु विगतायां सूक्ष्मसम्परायगुणस्थान के एकत्र लोभे भवेदिति । लेश्याद्वारे-'तिसु २५ श.. लघुवृत्तौ । विसुद्धासु'त्ति (मू.७६९) भावलेश्यापेक्षया प्रशस्तासु तिसृषु पुलाकादयस्त्रयः स्युः, कषायकुशीलस्तु षट्स्वपि, सकपायमेवाश्रित्य ॥ ६ उद्देशः
| 'पुव्वपडिवण्णओ पुण अण्णयरीए उ लेसाए'इत्येतदुक्तमिति सम्भाव्यते, 'एक्काए परमसुक्काए'त्ति शुक्लध्यानतृतीयभेदाभावावसरे
या लेश्या सा परमशुक्ला, अन्यदा तु शुक्लेव, साऽपीतरजीवशुक्ललेश्यापेक्षया परमशुक्लेति । परिणामद्वारे 'वडमाणपरिणामें'त्ति (सू. ७७०) तत्र वर्द्धमानः शुद्धेरुत्कर्ष गच्छन् , हीयमानस्त्वपकर्ष गच्छन् , अवस्थितस्तु स्थिर इति, तत्र निर्ग्रन्थो हीयमानपरि|णामो न स्यात् , तस्य परिणामहानौ कषायकुशीलव्यपदेशात् , स्नातकस्तु हानिकारणाभावात् न हीयमानपरिणामः स्यादिति ॥ 'पुलाए णं'ति तत्र पुलाको बर्द्धमानपरिणामकाले कपायविशेषेणाबाधिते तस्मिन् तस्यैकादिकं समयमनुभवतीत्युच्यते जघन्येनैकं समयमिति 'उकोसेणमंतोमुहुत्तंति एतत्स्वभावात् वर्द्धमानपरिणामस्य, एवं बकुशप्रतिसेवाकुशीलकपायकुशीलेष्वपि, नवरं बंकुशादीनां जघन्यत एकसमयता मरणादपीष्टा, न पुनः पुलाकस्य, पुलाकत्वे मरणाभावात् , सहि मरणकाले कषायकुशीलत्वा| दिना परिणमति, यच्च प्राक् पुलाकस्य कालगमनं तद्भूतभावापेक्षयेति, निर्ग्रन्थो जघन्येनोत्कर्षेण चान्तर्मुहूर्त वर्द्धमानपरिणामः स्यात्, | केवलज्ञानोत्पत्तौ परिणामान्तराभावात् , अवस्थितपरिणामः पुनर्निग्रन्थस्य जघन्यत एकं समयं मरणात् स्यादिति, 'सिणाए णं भंतेत्ति स्नातको जघन्येतराम्यां अन्तर्मुहर्तवर्द्धमानपरिणामः, शैलेश्यां तस्यास्तत्प्रमाणत्वात् , अवस्थितपरिणामकालोऽपि जघन्यस्तस्यान्तर्मुहूर्त, कथं ?, उच्यते-यः केवलज्ञानोत्पादानन्तरमन्तर्मुहूर्तमवस्थितपरिणामो भूत्वा शैलेशी प्रतिपद्यते तदपेक्षयेति, 'उक्कोसेणं देसूण'त्ति पूर्वकोट्यायुर्नरस्य जन्मतो जघन्येन नवसु वर्षेष्वतिगतेषु केवलज्ञानमुत्पद्यते, ततोऽसौ तद्नां पूर्वकोटीम
iinstapho
Loading... Page Navigation 1 ... 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600