SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ श्रीभग शेषेषु त्रिषु एवं माने विगते द्वयोःमायायां तु विगतायां सूक्ष्मसम्परायगुणस्थान के एकत्र लोभे भवेदिति । लेश्याद्वारे-'तिसु २५ श.. लघुवृत्तौ । विसुद्धासु'त्ति (मू.७६९) भावलेश्यापेक्षया प्रशस्तासु तिसृषु पुलाकादयस्त्रयः स्युः, कषायकुशीलस्तु षट्स्वपि, सकपायमेवाश्रित्य ॥ ६ उद्देशः | 'पुव्वपडिवण्णओ पुण अण्णयरीए उ लेसाए'इत्येतदुक्तमिति सम्भाव्यते, 'एक्काए परमसुक्काए'त्ति शुक्लध्यानतृतीयभेदाभावावसरे या लेश्या सा परमशुक्ला, अन्यदा तु शुक्लेव, साऽपीतरजीवशुक्ललेश्यापेक्षया परमशुक्लेति । परिणामद्वारे 'वडमाणपरिणामें'त्ति (सू. ७७०) तत्र वर्द्धमानः शुद्धेरुत्कर्ष गच्छन् , हीयमानस्त्वपकर्ष गच्छन् , अवस्थितस्तु स्थिर इति, तत्र निर्ग्रन्थो हीयमानपरि|णामो न स्यात् , तस्य परिणामहानौ कषायकुशीलव्यपदेशात् , स्नातकस्तु हानिकारणाभावात् न हीयमानपरिणामः स्यादिति ॥ 'पुलाए णं'ति तत्र पुलाको बर्द्धमानपरिणामकाले कपायविशेषेणाबाधिते तस्मिन् तस्यैकादिकं समयमनुभवतीत्युच्यते जघन्येनैकं समयमिति 'उकोसेणमंतोमुहुत्तंति एतत्स्वभावात् वर्द्धमानपरिणामस्य, एवं बकुशप्रतिसेवाकुशीलकपायकुशीलेष्वपि, नवरं बंकुशादीनां जघन्यत एकसमयता मरणादपीष्टा, न पुनः पुलाकस्य, पुलाकत्वे मरणाभावात् , सहि मरणकाले कषायकुशीलत्वा| दिना परिणमति, यच्च प्राक् पुलाकस्य कालगमनं तद्भूतभावापेक्षयेति, निर्ग्रन्थो जघन्येनोत्कर्षेण चान्तर्मुहूर्त वर्द्धमानपरिणामः स्यात्, | केवलज्ञानोत्पत्तौ परिणामान्तराभावात् , अवस्थितपरिणामः पुनर्निग्रन्थस्य जघन्यत एकं समयं मरणात् स्यादिति, 'सिणाए णं भंतेत्ति स्नातको जघन्येतराम्यां अन्तर्मुहर्तवर्द्धमानपरिणामः, शैलेश्यां तस्यास्तत्प्रमाणत्वात् , अवस्थितपरिणामकालोऽपि जघन्यस्तस्यान्तर्मुहूर्त, कथं ?, उच्यते-यः केवलज्ञानोत्पादानन्तरमन्तर्मुहूर्तमवस्थितपरिणामो भूत्वा शैलेशी प्रतिपद्यते तदपेक्षयेति, 'उक्कोसेणं देसूण'त्ति पूर्वकोट्यायुर्नरस्य जन्मतो जघन्येन नवसु वर्षेष्वतिगतेषु केवलज्ञानमुत्पद्यते, ततोऽसौ तद्नां पूर्वकोटीम iinstapho
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy