________________
श्रीभग० लघुवृत्ती
६ उद्देश:
| विधविशुद्ध्यभावात् , 'कसायकुसीलेणं समं छट्ठाण'त्ति, पुलाकापेक्षया यथा उक्तस्तथा कषायकुशीलापेक्षयाऽपि वाच्य इति, तत्र पुलाकः कषायकुशीलाद्धीनो वा स्यात् , अविशुद्धसंयमस्थानवृत्तित्वात् , तुल्यो वा स्यात् समसंयमस्थानवृत्तित्वात् , अधिको वा स्थाच्छुद्धतरसंयमस्थानवृत्तित्वात् , यतः पुलाकस्य कषायकुशीलस्य च सर्वजघन्यानि संयमस्थानानि अधः, ततस्ते युगपदसङ्ख्ये| यानि संयमस्थानानि गच्छतः, तुल्याध्यवसानत्वात् , ततः पुलाको व्यवच्छिद्यते, हीनपरिणामत्वात , व्यवच्छिन्ने पुलाके कषाय
कुशील एक एवासङ्ख्येयानि संयमस्थानानि गच्छति, शुभतरपरिणामत्वात् , ततः प्रतिसेवनाकषायकुशीलौ च सङ्ख्येयानि संय| मस्थानानि गच्छतः, ततश्च प्रतिसेवनाकुशीलो व्यवच्छिद्यते, कपायकुशीलस्त्वसङ्ख्येयानि संयमस्थानानि गच्छति, ततः सोऽपि व्यवच्छिद्यते, ततो निर्ग्रन्थस्नातकावेकं संयमस्थान प्रामुतः, 'नियण्ठस्स जहा बउसस्स'त्ति पुलाको निर्ग्रन्थादनन्तगुणहीन इत्यर्थः। शेषैस्सह पुलाकश्चिन्तितः, अथ बकुशश्चिन्त्यते-चकुशः पुलाकादनन्तगुणाभ्यधिको, विशुद्धपरिणामत्वात् , बकुशात्तु हीनादिविचित्रपरिणामत्वात् , प्रतिसेवाकषायकुशीलाभ्यामपि हीनादिरेव, निर्ग्रन्थस्नातकाभ्यामपि हीन एवेति 'बउसवत्तव्वया भाणियव्य'त्ति प्रतिसेवाकुशीलस्तथा वाच्यः, यथा बकुश इत्यर्थः, कपायकुशीलोऽपि बकुशद्वाच्यः, केवलं पुलाकात् बकुशोऽधिक एवोक्तः, सकषायस्तु षट्स्थानपतितो वाच्यः, हीनादिरित्यर्थः, तत्परिणामस्य पुलाकापेक्षया हीनसमाधिकखभावत्वात् ।। अथ तेषां जघन्यादिभेदानां पुलाकादिसम्बन्धिनामल्पत्वाद्याह-'एएसिणं'॥ योगद्वारे 'अजोगी वा होज'त्ति (सू . ७६६) इहायोगी | शैलेशीकरणे १६ । उपयोगद्वार (सू. ७६७) सुगमत्वान्न विवृतं १७ । कषायद्वारे-'सकसायी होज'त्ति (मू.७६८) पुलाकस्य | कपायाणां क्षयस्योपशमस्य चाभावात् । 'तिमु होमाण'त्ति उपशमश्रेण्यां क्षपकश्रेण्यां वा सज्वलने क्रोधे उपशान्ते क्षीणे वा|
२७५॥