Book Title: Bhagwati Sutram
Author(s): Rushabhdev Kesarimal Jain Shwetambar Sanstha
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 481
________________ श्रीभग० लघुवृत्तौ डीओ निज रिस्संति ?, गोयमा ! चउहिं ठाणेहिं, तंत्र - कोहेणं माणेणं मायाए लोभेणं' ति इह नारकादीनामष्टापि कर्माण्युदये वर्त्तन्ते, उदयवर्त्तिनां तेषां अवश्यं निर्जरणमस्ति, कषायोदयवर्तिनच ते, ततथ कपायोदये कर्म्म नर्जराभावात् क्रोधादिभिर्वैमानिकानामष्टकर्मप्रकृतिनिर्जरणमुच्यते ॥ प्रागुक्तचतुः कषायाश्चतुःसङ्ख्यात्वात् कृतयुग्मलक्षणसङ्ख्या विशेषत्राच्याः स्युरित्यतो युग्मस्वरूपमाह - 'चत्तारि जुम्म' त्ति इह गणितपरिभाषया समो राशिर्युग्ममुच्यते विषमस्तु ओज इति, तत्र यद्यपि द्वौ राशी युग्मशब्दवाच्यौ द्वौ ओजः शब्दवाच्यौ च भवतः, तथापि इह युग्मशब्देन राशयो विवक्षिताः, अतश्चत्वारि युग्मानि राशय इत्यर्थः, तत्र 'कडजुम्मे' त्ति कृतं सिद्धं पूर्णं ततः परस्य राशिसंज्ञान्तरस्याभावेन न त्र्योजःप्रभृतिवदपूर्णं यत् युग्मं 'तेओए'त्ति त्रिभिरादित एव कृतयुग्माद्वोपरिवर्त्तिभिरोजो - विषमराशिरूयोज इति, 'दावरजुम्मे' ति द्वाभ्यामादित एव कृतयुग्माद्वोपरिवर्त्तिभ्यां यदपरं युग्मं कृतयुग्मादन्यत् द्वापरयुग्मं, 'कलिओए'ति कलिना - एकेनादित एव कृतयुग्माद्वोपरिवर्तिना ओजो - विषमराशिः कल्योज इति । 'जे णं रासी'त्यादि, यो राशिचतुष्केणापहारेणापहियमाणञ्चतुष्पर्यवसितः स्यात् स कृतयुग्ममित्युच्यते, यत्र राशौ चतूरूपत्वेन चतुष्कापहारो नास्ति सोऽपि चतुष्पर्यवसितत्वसद्भावात् कृतयुग्ममेव, एवमुत्तरपदेष्वपि, जहण्णपदे कडजुम्मे' ति अत्यन्तस्तोकत्वे कृतयुग्माः - कृतयुग्मसंज्ञिताः 'उक्कोस पर 'त्ति सर्वोत्कृष्टतायां त्र्योजः संज्ञिताः, मध्यमपदे चतुर्विधा अपि, एतदाज्ञाप्रामाण्यादवगन्तव्यं । 'वणस्सइकाइया णं' ति वनस्पतिकायिका जघन्यपदे उत्कृष्टपदे यापदाः, जघन्यपदस्योत्कृष्टपदस्य च तेषामभावात् तथाहि - जघन्यपदमुत्कृष्टपदं च तदुच्यते यन्नियतरूपं तच्च यथा नारकादीनां कालान्तरेणापि न तथा वनस्पतिकायिकानां नियतरूपं लभ्यते, परंपरया सिद्धिगमनेन तद्राशेरनन्तत्वापरित्यागेऽप्यनियतरूपत्वादिति । 'सिद्धा जहा वणस्सइकाइय'त्ति जघन्यपदे उत्कृष्टपदे PANA DOG WAS DHAMMA HOON MANANDHANA BED, FROM AND OTHER WHOOPHE KAPDE १८. श० ४ उद्देशः

Loading...

Page Navigation
1 ... 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600