Book Title: Avashyaksutra Niryuktirev Curni Part_1
Author(s): Sundarsuri, Pramodsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीधीरसुन्दरसू० आव अवचूणिः
॥७८॥
गाथा-५
स्तिबुक:-उदकबिन्दुस्तस्येवाकारो यस्यासौ स्तिबुकाकारो जघन्यावधिः, तमेव स्पष्टयति-वृत्तः, सर्वतो वृत्तः, पनकक्षेत्रस्य वर्तुलत्त्वात् , तथा उत्कृष्टः परमावधिः आयतः-प्रदीर्घः किञ्चित्-मनाक, वह्निजीवसूच्या अवधिमच्छरीरस्य सर्वतो भ्राम्यमाणया व्याप्यमानस्य क्षेत्रस्य एतदाकारभावात् , तथा न जघन्यो नाप्युत्कृष्टोऽजघन्योत्कृष्टो-मध्यम एव, क्षेत्रतोऽनेकसंस्थानः, च एवार्थः, एवं जघन्योत्कृष्टावधिसंस्थानमुक्तं, एवं विमध्यमावधिसंस्थानमाह । ५४।।
तष्पागारे १ पल्लग २ पडहग ३ झल्लरि ४ सुइंग ५ पुष्फ ६ जवे ७।
तिरियमणुएसु ओही, नाणाविहसंढिओ भणिओ ॥५५॥ तम्रो नाम काष्ठसमुदायविशेषो यो नदीप्रवाहेण प्लाव्यमानो दूरादानीयते, स चाऽयतस्त्र्यसश्च भवति, || तस्येवाकारो यस्यासौ तप्राकारोऽवधि रकाणां, पल्लको लाटदेशप्रसिद्धो ? धान्याधारविशेषः, स चोर्ध्वायत उपरि च । किश्चित्संक्षिप्तः, आकार इति वर्तते, तस्येव आकारो यस्यासौ पल्लकाकारो भवनपतीनां, एवमाकारशब्दः सर्वत्र योज्यः, पटह-आतोद्यविशेषः, स च किश्चिदायत उपर्यधश्च समप्रमाणः तदाकारोऽवधिः व्यन्तगणां, उभयतो विस्तीर्णा चौवनद्वमुखा मध्येसंक्षिप्ता ढक्काकारा छल्लरी-आतोद्यविशेषरूपा तदाकारोऽवधिज्योतिष्कदेवानां, मृदङ्गोवाद्यविशेषः, स चाधस्ताद्विस्तीर्ण उपरि च तनुकः सुप्रतीतस्तदाकारोऽवधिः सौधर्माद्यच्युतपर्यन्तदेवानां, पुष्फत्तिपदैकदेशे पदसमुदायोपचारात् सशिरवा पुष्पभृता चंगेरी, तदाकारोऽवधिग्रेवेयकविमानवासिदेवानां, 'जव' इति यवनालक इति द्रष्टव्यं, यवनालको नाम कन्या चोलकः, स च मरुमण्डलादिप्रसिद्धश्चरणकरूपेण कन्यापरिधानेन सह सीवितो
॥७८||
Jain Education Intem
For Private & Personal use only
N
eubrary.org