Book Title: Avashyaksutra Niryuktirev Curni Part_1
Author(s): Sundarsuri, Pramodsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 205
________________ श्रीधीरसुन्दरमा आव अवचूर्णिः ॥२०१॥ नीत्यतिक्रमकारिणां राजा करोति दण्ड', स चामात्यारक्षकादिवलयुक्तः कृताभिषेकोऽनतिक्रमणीयाज्ञश्व भवति, एवं भगवता शिष्टे-कथिते सति ते मिथुनका ब्रवते-अस्माकमपि राजा भवतु, वर्तमाननिर्देशः, खल्वन्यास्वप्यवसर्पिणीषु अयमेव न्यायः प्राय इति प्रदर्शनार्थः, भगवानाह-यो' तर्हि मार्गयत-याच, कुलकर', तर्याचितो नाभिकुलकरं, स च ब्रूते अहं महान् जातः, ऋषभो भवतां राजा, ततश्च ते मिथुनका राज्याभिषेकार्थमुदकानयनाय पद्मिनोसरो जग्मुः, अत्रान्तरे आसनप्रकम्पादवधिना ज्ञात्वा शक्रः समागत्य राज्याभिषेक कृतवान् ।।१९८॥ अमुमेवार्थमुपसंहरन् अनुक्त' च प्रतिपादयन्नाह आभोएउं सको उवागओ तस्स कुगइ अभिसे। मउडाइअलंकारं नरिंदजोग्गं च से कुणइ ॥१९९॥ आभाग्य:-अप्रवधिना विज्ञाय उपागतस्तस्य भगक्तः करोति राज्याभिषकं मुकुटायलकारहारं च, आदिशब्दात् कटककुण्डलकेयुगदिग्रहः, चशब्दस्य बवहितसम्बन्धः, से-तस्य करोति, अत्रापि वर्तमाननिर्देशः प्राग्वत् , अत्रान्तरे मिथुनकनराः समागताः ॥१९९।। एनदेव आह भिसिणीपत्तेहिअरे उदयं वित्तुं छुहंति पाए । साहु विणीआ पुरिमा विणीअनयरी अह निविट्ठा ॥२००॥ गाथा-१९ -९९-२० Jain Education International For Private & Personal use only wow.jainelibrary.org

Loading...

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244