________________
श्रीधीरसुन्दरमा आव अवचूर्णिः
॥२०१॥
नीत्यतिक्रमकारिणां राजा करोति दण्ड', स चामात्यारक्षकादिवलयुक्तः कृताभिषेकोऽनतिक्रमणीयाज्ञश्व भवति, एवं भगवता शिष्टे-कथिते सति ते मिथुनका ब्रवते-अस्माकमपि राजा भवतु, वर्तमाननिर्देशः, खल्वन्यास्वप्यवसर्पिणीषु अयमेव न्यायः प्राय इति प्रदर्शनार्थः, भगवानाह-यो' तर्हि मार्गयत-याच, कुलकर', तर्याचितो नाभिकुलकरं, स च ब्रूते अहं महान् जातः, ऋषभो भवतां राजा, ततश्च ते मिथुनका राज्याभिषेकार्थमुदकानयनाय पद्मिनोसरो जग्मुः, अत्रान्तरे आसनप्रकम्पादवधिना ज्ञात्वा शक्रः समागत्य राज्याभिषेक कृतवान् ।।१९८॥ अमुमेवार्थमुपसंहरन् अनुक्त' च प्रतिपादयन्नाह
आभोएउं सको उवागओ तस्स कुगइ अभिसे।
मउडाइअलंकारं नरिंदजोग्गं च से कुणइ ॥१९९॥ आभाग्य:-अप्रवधिना विज्ञाय उपागतस्तस्य भगक्तः करोति राज्याभिषकं मुकुटायलकारहारं च, आदिशब्दात् कटककुण्डलकेयुगदिग्रहः, चशब्दस्य बवहितसम्बन्धः, से-तस्य करोति, अत्रापि वर्तमाननिर्देशः प्राग्वत् , अत्रान्तरे मिथुनकनराः समागताः ॥१९९।। एनदेव आह
भिसिणीपत्तेहिअरे उदयं वित्तुं छुहंति पाए । साहु विणीआ पुरिमा विणीअनयरी अह निविट्ठा ॥२००॥
गाथा-१९ -९९-२०
Jain Education International
For Private & Personal use only
wow.jainelibrary.org