Book Title: Avashyaksutra Niryuktirev Curni Part_1
Author(s): Sundarsuri, Pramodsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
गाथा-७९
श्रीषीरसुन्दरसू० ओव०अवणिः ॥११२॥
राधनपरेण हितकाक्षिणा माव्यम् ॥१॥" [प्रश. ६९] ।
ननु यद्येवं तर्हि गुरुभावोपक्रम एवामिधातव्यो, न शेषाः, निष्प्रयोजनत्वात् , न गुरुचित्तप्रसादनार्थमेवतेषामुपयोगित्वात् , तथाहि-गुरोस्तथाविधकार्योत्पत्ती तच्चित्तप्रसादनार्थमेवाशनादिद्रव्य व्याख्यानादिक्षेत्र प्रबज्यालग्नादिकाल चोपक्रामतो विनेयस्य द्रव्याधुपक्रमा अपि सार्थका एव, अथवोपक्रमसाम्यात् प्रकृते निरुपयोगिनोऽपि अन्यत्रोपयोक्ष्यन्त इत्युपन्यस्तत्वाददोषः, अथ शास्त्रीय उच्यते, सोऽपि षोढा, तद्यथा-आनुपूर्वी १, नाम २, प्रमाणं ३, वक्तव्यता ४, अर्थाधिकारः ५, समवतारः ६, तत्रानुपूर्वी दशधा-नामानुपूर्वी १, स्थापनानुपूर्वी २, द्रव्यानु० ३, क्षेत्रा. ४, काला० ५, गणना०६, उत्कीर्चना० ७, संस्थाना०८, सामाचार्यानु०९, भावानुपूर्वी १०, एतासु दशस्वानुपुर्वीषु यथासंभवमवतार्यमिद सामायिकाध्ययनं, विशेषतस्तु उत्कीर्तनानुपुर्व्या गणनानुपा च समवतरति, उत्कीर्तन नाम संशन्दनं, यथा सामायिकं चतुर्विशतिस्तव इत्यादि, गणनंसंख्यानं, एक द्वे त्रीणि चत्वारीस्यादि, सा च गणनानुपूर्वी त्रिधा-पूर्वानुपूर्वी पश्चानुपूर्वी अनानुपूर्वी च, तत्र सामायिक पूर्वानुमूर्त्या प्रथम, पश्चानुपूर्व्या षष्ठ, अनानुपूर्यो स्वनियतं-कवचित्प्रथमं क्वचिद्वितीयमित्यादि, तत्रानानुपूर्वीणामय करणोपाय एतद्ब्रहवृतेझें यः, इदानी नाम वक्तव्य, प्रतिवस्तुनमनानाम, तच्चैकादिदशान्तं यथाऽनुयोगद्वारेषु तथा वक्तव्यं, सामायिकस्य षड्नाम्न्यवतारः, तत्र च षड्भावा औदयिकादयो निरूप्यन्ते, तत्र क्षायोपशमिक एव सर्वश्रुतावतारः तस्य क्षायोपशमिकत्वात्, तथा प्रमाण द्रव्यादि
॥११२।।
Jain Education Inter!
For Private & Personal use only
library og