Book Title: Agam Suttani Satikam Part 29 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
अध्ययनं - २९, [नि. ५१३ ]
चापि भवति, तज्जीवापेक्षया पुनस्तस्य तथाविधपरिणामाभावात्, एतच्चैवंविधविशेषणान्वितं सातकर्मैवासौ बन्धाति, यत उक्तम्
412
'अप्पं बायर मउयं बहुं च रुक्खं च सुक्किलं चेव । मंद महव्वयंति य सायाबहुलं च तं कम्मं ॥"
मू. ( ११८६ ) अहाउयं पालइत्ता अंतोमुहुत्तद्धावसेसाए जोगनिरोहं करेमानो सुहुमकिरिय अप्पडिवाई सुक्कज्झाणं झायमाणे तप्पढमयाएमणजोगं निरंभइ वयजोगं निरंभइ आणापाननिरोहं करेइ, ईसिपंचहस्सक्खरुच्चारणद्धाए य णं अनगारे समुच्छिन्नकिरियं अनियट्टिसुक्कज्झाणं झियायमानो वेयनिज्जं आउयं नामं गुत्तं च एए चत्तारिवि कम्मंसे जुगवं खवेइ ||
वृ. अयं च देशोनपूर्वकोटीमन्तर्मुहूर्त्तादिप्रमाणं वा कालं विहृत्य यथा शैलेशीमवाप्याकर्मतां लभते तथा दर्शयन् शैलेश्यकर्मताद्वारमर्थतो व्याचिख्यासुराह-'अथे 'ति केवलावाप्त्यनन्तरम् 'आयुष्कं जीवितमन्तर्मुहूर्त्तादिपरिमाणं पालयित्वा अन्तर्मुहूर्तपरिमाणाऽद्धा- कालोऽन्तर्मुहूर्त्ताद्धा साऽवशेषम्-उद्धरितं यस्मिंस्तदन्तर्मुहूर्त्ताद्धावशेषं तथाविधमायुरस्येत्यन्तमुहूर्ताद्धावशेषायुष्कः सन् पाठान्तरतश्चान्तर्मुहूर्त्तावशेषायुष्कः, पठन्ति च - 'अंतोमुहुत्तअद्धावसेसाए'त्ति प्राकृतत्वादन्तर्मुहूर्त्ताशेषाद्धायां 'योगनिरोहं करेमाणे 'त्ति योगनिरोधं करिष्यमाणः सूक्ष्मा क्रिया- व्यापारो यस्मिंस्तत्सूक्ष्मक्रियमप्रतिपतनशीलमप्रतिपाति अध: पतनाभावात्, शुक्लं ध्यानं 'समुदायेषु हि वृत्ताः शब्दा अवयवेष्वपि वर्त्तन्त' इति शुक्लध्यानतृतीयभेदं ध्यायन् 'तत्प्रथमतया' तदाद्यतया मनसो योगो मनोयोगः - मनोद्रव्यसाचिव्यजनितो व्यापारस्तं निरुणद्धि, तत्र च पर्याप्तमात्रस्य सञ्ज्ञिनो जघन्ययोगिनो यावन्ति मनोद्रव्याणि तज्जनितश्च यावद्यापारस्तदसङ्ख्यगुणविहीनानि मनोद्रव्याणितद्यापारं च प्रतिसमयं निरुन्धन्नसंख्येयसमयैस्तत्सर्वनिरोधं करोति, यत उक्तम्
"पज्जत्तमित्तसन्निस्स जत्तियाइं जहन्नजोगिस्स । होंति मनोदव्वाईं तव्वावारो य जम्मेत्तो ॥ १ ॥ तयसंखगुणविहीणे समए समए निरुंभमानो सो । मनसो सव्वनिरोहं कुणइ असंखेज्जसमएहिं ||२||"
१७३
तदनन्तरं च वाचो वाचि वा योगो भाषाद्रव्यसाचिव्यजनितो जीवव्यापारस्तन्निरुणद्धि, तत्र च पर्याप्तमात्रद्वीन्द्रियजघन्यवाग्योगपर्यायेभ्योऽसंख्येयगुणविहीनांस्तत्पर्यायान् समये समये निरुन्धन्नसंख्येयसमयैः सर्ववाग्योगं निरुणद्धि, यत उक्तम् -
"पज्जत्तमित्तबिंदिय जहन्नवइजोगपज्जवा जे उ । तदसंखगुणविहीणं समए समए निरंभंतो || ३ ||
सव्ववइजोगरोहं संखाईएहि कुणइ समएहिं ।" 'आनापाणुनिरोह'ति आनापानौउच्छ्वासनिःश्वासौ तन्निरोधं करोति, सकलकाययोगनिरोधोपलक्षणं चैतत्, तं च कुर्वन् प्रथमसमयोत्पन्नसूक्ष्मपनकजघन्यकाययोगतोऽसङ्ख्येयगुणहीनं काययोगेनैकैकसमये निरुन्धन् देहत्रिभागं च मुञ्चनसङ्ख्येयसमयैरेव सर्वं निरणद्धि, यत उक्तं च
"तत्तो य सुहुमपणयस्स पढमसमओववन्नस्स ||४||
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Loading... Page Navigation 1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316