Book Title: Agam Suttani Satikam Part 29 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 299
________________ २९६ उत्तराध्ययन- मूलसूत्रम् - २-३६ / १७३० 'अभविय'त्ति सूत्रत्वाद् 'अभव्याः' अयोग्याः 'उत्तरज्झाय'त्ति वचनव्यत्ययादुत्तराध्यायेपुत्तराध्यायविषयेऽध्ययन इति गम्यते, यद्वा 'उत्तर'त्ति प्राग्वत्पदैकदेशेऽपि पददर्शनादुत्तराध्ययनानि तेषामध्यायः- पाठ उत्तराध्यायस्तस्मिन्, तदनेन विशिष्टयोग्यतायामेव तात्त्विकैतदध्ययनसद्भावलक्षणं माहात्म्यमुक्तमिति गाथाद्वयार्थः ॥ यतश्चैवमतिमाहात्म्यवन्त एव उत्तराध्याययास्ततो यद्विधेयं तदाहनि. [ ५६२ ] तम्हा जिनपन्नत्ते अनंतंगमपज्जवेहि संजुत्ते । अज्झाए जहाजोगं गुरूपसाया अहिज्झिज्जा ।। वृ. तस्माज्जनैः - श्रुतजिनादिभिः प्ररूपता:- प्रज्ञप्तास्तान्, अनन्ताश्च ते गमाश्च-अर्थपरिच्छित्तिप्रकाराः पर्यवाश्चशब्दपर्यवार्थपर्यवरूपा अनन्तगमपर्यवास्तैः, समिति सम्यग् भृशं वा युक्ताः - संयुक्तास्तान् 'अध्यायान्' प्रक्रमादुत्तराध्यायान् 'जहाजोगं' ति योग-उपधानादिरुचितव्यापारस्तदनतिक्रमेण यथायोगं गुरूणां प्रसादः - चित्तप्रसन्नता गुरुप्रसादस्तस्माद्धेतोः 'अधीयेत्' पठेत्, न त्वेतदध्ययनयोग्यतावाप्तौ प्रमादं कुर्यादिति भावः, गुरुप्रसादादिति चाभिधानमध्ययनार्थिनाऽवश्यं गुरवः प्रसादनीयाः तदधीनत्वात्तस्येति ख्यापनार्थमिति गाथार्थः । 'इति' परिसमाप्तौ, ब्रवीमीति पूर्ववत् । उक्तोऽनुगमः, सम्प्रति नयाः, तेऽपि प्राग्वदेव ॥ मुनि दीपरत्नसागरेण संशोधिता संपादिता उत्तराध्ययन सूत्रस्य भद्रबाहुसूरिणाविरचित्ता निर्युक्तिः ( एवं ) शान्त्याचार्येणविरचित्ता टीका परिसमाप्ता अस्ति विस्तारवानुर्व्या, गुरुशास्वासमन्वितः । आसेव्यो भव्यसार्थानां, श्रीकोटिकगणद्रुमः ॥ १ ॥ तदुत्थवैरशाखायामभूदायतिशालिनी । विशाला प्रतिशाखेव, श्रीचन्द्रकुलसन्ततिः || २ || तस्यामानच्छदनिचयसदृक्षावर्णान्वयोत्थः, श्रीधारापद्रगच्छप्रसव भरलसद्धर्मकिञ्जल्कपानात् । श्रीशान्त्याचार्यभृङ्गो यदिदमुदगिरद्वाडधु श्रोत्रपेयं, तद्भो भव्याः ! त्रिदोषप्रशमकरमतो गृह्यतां लिह्यतां च ॥३॥ ४३ चतुर्थ मूलसूत्रं “उत्तराध्यनानि" समाप्तं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316