Book Title: Agam Suttani Satikam Part 29 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 297
________________ उत्तराध्ययन- मूलसूत्रम् - २-३६ / १७३० "गूहइ आयसहावं घायइ य गुणे परस्स संतेवि । चोरोव्व सव्वसंकी गूढायारो वितहभासि ।। "त्ति किल्बिपिकीभावनां करोति । इदानीं विचित्रत्वात्सूत्रकृतेर्मोहीप्रस्तावेऽपि यत्कुर्वताऽऽसुरी कृता भवति तदाह- अनुबद्धः -- सन्ततः, कोऽर्थ : ? - अव्यवच्छिन्नो रोषस्य क्रोधस्य प्रसरोविस्तारो ऽस्येति अनुबद्धरोपप्रसरः, सदा विरोधशीलतया पश्चादननुतापितया क्षमणादावपि प्रसत्त्यप्राप्त्या वेत्यभिप्राय:, तथा चोक्तम् .२९४ - "निच्चं वोग्गहसीला काऊण न यानुतप्पए पच्छा । न य खामिओ पसीयइ अवराहीणं दुवेण्हपि ॥" 'तथे 'ति समुच्चये 'च: ' पूरणे निमित्तमिह ज्ञेयपरिच्छित्तिकारणं तच्चातीतादित्रिविधकालभेदात्रिधा, उक्तं हि · “तिविहं होइ निमित्तं तीयपडुप्पन्नऽनागयं चेव । तेन विना उ न नेयं नज्जइ तेणं निमित्तं तु ।। " तद्विपये ‘भवति' जायते 'प्रतिसेवी' इत्यवश्यंप्रतिसेवकोऽपुष्टालम्बनेऽपि तदासेवनात्, ‘एताभ्याम्' अनन्तरोक्ताभ्याम् ' आसुरियं' ति आसुरीं भावनां करोति । शस्यतेऽनेनेनि शस्त्रं खङ्गक्षुरिकादि तस्य ग्रहणं-स्वीकरणमुपलक्षणत्वादस्यात्मनि वधार्थं व्यापारणं शस्त्रग्रहणं, वेवेष्टि-व्याप्नोति झगित्यात्मानमिति विषं-तालपुटादि तस्य भक्षणम्अभ्यवहरणं विषभक्षणं, चशब्द उक्तसमुच्चयार्थः पर्यन्ते योक्ष्यते, 'ज्वलनं' दीपनमात्मन इति गम्यते, जले प्रवेशो - निमज्जनं जलप्रवेशः, चशब्दोऽनुक्तभृगुपातादिपरिग्रहार्थः, आचारःशास्त्रविहितो व्यवहारस्तेन भाण्डम्-उपकरणमाचारभाण्डं न तथाऽनाचारभाण्डं तस्य सेवाहास्यमोहादिभिः परिभोगाऽनाचारभाण्डसेवा, गम्यमानत्वादेतानि कुर्वन्तो यतयः, किमित्याहजन्ममरणान्युपचारात्तन्निमित्तकर्माणि 'बध्नन्ति' आत्मना श्लेषयन्ति, संक्लेशजनकत्वेन शस्त्रग्रहणादीनामनन्तभवहेतुत्वात् अनेन चोन्मार्गप्रतिपत्त्या मार्गविप्रतिपत्तिराक्षिप्ता, तथा चार्थतो मोही भावनोक्ता, यतस्तल्लक्षणम् "उम्मग्गदेसओ मग्गनासओ मग्गविप्पडिवत्ती मोहेण य मोहित्ता संमोहं भावणं कुणइ ॥”त्ति, ननु पूर्वं तद्विधदेवगामित्वं भावनाफमलमुक्तमिह त्वन्यदेवास्या इति न कथं विरोध: ?, उच्यते, अनन्तरफलमाश्रित्य तदुदितमिदं [ दमेव चूर्ण्यं दृश्यते, तत्रैव जीवेत्यादि] तु परम्पराफलं सर्वभावनानामिति भावनार्थमित्थमुपन्यास:, तथा चोक्तम् “एयाओ भावनाओ भावित्ता देवदुग्गइं जंति । तत्तो य चुया संता परिंति भवसागरमनंतं ॥" इति सूत्रपञ्चकार्थः ।। इह च देववक्तव्यताऽनन्तरसूत्रकदम्बस्थाने सूत्रद्वयमेव चूर्ण्य दृश्यते, तत्रैकं “जीवमजीवे”त्यादि प्राग्वद् व्याख्यातमेव, तथा "पसत्थसज्झाणोवगए, कालं किच्चा न संजए। सिद्धे वा सासए भवति, देवे वावि महड्डिए ॥ "त्ति For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316