Book Title: Agam Suttani Satikam Part 29 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 255
________________ २५२ उत्तराध्ययन-मूलसूत्रम्-२-३६/१४७१ मू.(१४७१) धम्माधम्मे य दोऽवेए, लोगमित्ता वियाहिया। लोगालोगे य आगासे, समए समयखित्तिए।। वृ. 'धर्माधर्मों' धर्मास्तिकायाधर्मास्तिकायौ 'चः' पूरणे द्वावप्येतौ 'लोकमात्रौ' लोकपरिमाणौ व्याख्यातौ, ननु धर्माधर्मावित्युक्ते द्वाविति गतार्थमेव द्वित्वसङ्ख्याया द्विवचनेनैवाभिधानात्, सत्यं, किन्तु गतार्थानामपि दृश्यते एव लोके प्रयोगः, तथा चाह जिनेन्द्रबुद्धिः-"यदि गतार्थानामप्रयोग एव स्यात् पचति देवदत्त इत्यत्र पचतीत्येतद्गततिडैवैकत्वस्योक्तत्वाद् देवदत्त इति सुप एकवचनस्याप्राप्तिरेव स्यादिति, लोकमात्रत्वं चानयोरेतदवष्टब्धाकाशस्यैव लोकत्वात्, अलोकव्यापित्वे त्वनयो र्जीवपुद्गलयोरपि तत्र प्रचारप्रसड़ेन तस्यापि लोकत्वावाप्तेः, उक्तं च- । "धर्माधर्मविभुत्वात्सर्वत्र जीवपुद्गलविचारात् । नो लोकः कश्चित्स्यान्न च संमतमेतदार्याणाम् ॥" तथा चैतौ लोक एव नालोक इत्यर्थादुक्तं भवति, तथा लोगालोगे य आगासे'त्ति लोकेऽलोके चाऽऽकाशं, सर्वगतत्त्वात्तस्य, 'समयः' इत्यद्धासमयः समयोपलक्षितं क्षेत्रं समयक्षेत्रम्अर्द्धतृतीयद्वीपसमुद्रास्तद्विषयभूतमस्यास्तीति समयक्षेत्रिकः, तत्परतस्तस्यासम्भवात्, समयमूलत्वादावलिकादिकल्पनायाः तेऽप्येतावत्क्षेत्रवर्त्तिन एव, तथा चोक्तम् . "समयावलिकापक्षमासवयनसञ्जित्ताः। नृलोक एव कालस्य, वृत्तिर्नान्यत्र कुत्रचित् ।।" इति सूत्रार्थः ॥ एतानेव कालत आहमू. (१४७२) धम्माधम्मागासा, तिन्निवि एए अनाइया। अपज्जवसिया चेव, सव्वद्धं तु वियाहिया ।। मू. (१४७३) समएवि संतई पप्प, एवमेव वियाहिए। आएसं पप्प साईए, सपज्जवसिएवि य॥ - वृ.धर्मश्चाधर्मश्चाकाशं च धर्माधर्माकाशानि त्रीण्यप्येतानि न विद्यते आदिरेषामित्यनादिकानि, इत्यतः कालात्प्रभृत्यमूनि प्रवृत्तानीत्यसम्भवात्, न पर्यवसितान्यपर्यवसितान्यनन्तानीतियावत्, न हि कुतश्चित्कालात्परत एतानि न भविष्यन्तीति सम्भवः, चैवौ प्राग्वत्, तथा च 'सर्वाद्धा' सर्वकालं, कालात्यन्तसंयोगे द्वितीया, 'तुः' अवधारणेऽतः सर्वदा स्वस्वरूपापरित्यागतो नित्यानीतियावद् 'व्याख्यातानि' कथितानि, सर्वत्र लिङ्गव्यत्ययः प्राग्वत, समयोऽपि सन्ततिम्' अपरापरोत्पत्तिरूपप्रवाहात्मिकां प्राप्य' आश्रित्य 'एवमेव' अनाद्यपर्यवसितत्वलक्षणेनैव प्रकारेण 'व्याख्यातः' प्ररूपितः, पठन्ति च-'एमेव संतई पप्प समएवि'त्ति स्पष्टम्, 'आदेश' विशेष प्रतिनियतव्यक्त्यात्मकं प्राप्य' अङ्गीकृत्य सादिकः सपर्यवसितः, अपिः' समुच्चये 'च:' पुनरर्थे भिन्नक्रमश्च देशं पुनः प्राप्येति योज्य:, विशेषापेक्षया ाभूत्वाऽयं भवति भूत्वा च न भवतीति सादिनिधन उच्यत इति सूत्रद्वयार्थः । इत्थमजीवानामरूपिणां द्रव्यक्षेत्रकालैः प्ररूपणा कृता, सम्प्रति भावप्ररूपणावसरः, तत्र चामूर्तत्वेन नामीषां पर्याया रूपिपर्याया इव वर्णादयः प्ररूप्यमाणा अपि संवित्तिमानेतुं शक्याः For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316