Book Title: Agam Suttani Satikam Part 29 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
अध्ययनं - ३६, [ नि. ५५९ ]
मू. ( १७०४ )
मू. ( १७०५ )
मू. ( १७०६ )
तीसं तु सागराई, उक्को सेन ठिई भवे । अट्टमंमि जहन्त्रेणं, सागरा अउणतीसई ॥ सागरा इक्कतीसं तु, उक्को सेन ठिई भवे । नवमंमि जहन्त्रेणं, तीसइं सागरोवमा ॥ तित्तीससागरा ऊ, उक्को सेन ठिई भवे । चउसुपि विजयाईसु, जहन्ना इक्कतीसई ॥ अजहत्रमनुक्कोस, तित्तीसं सागरोवमा । महाविमानसव्वट्टे, ठिई एसा वियाहिया ।। जा चेव उ आउठिई, देवाणं तु वियाहिया । सा तेसिं कार्याठई, जहन्नमुक्कोसिया भवे ॥
मू. ( १७०७ )
मू. ( १७०८ )
वृ. क्षेत्रकालाभिधायि सूत्रद्वयं प्राग्वत्, सादिसपर्यवसितत्व भावनार्थं साहीयमित्यादि सप्तविंशतिः सूत्राणि प्रायो निगदसिद्धान्येव, नवरं 'साहीय'त्ति प्राकृतत्वात्साधिकं 'सागर' मिति सागरोपममेकमुत्कृष्टेन स्थितिर्भवेद् 'भौमेयकानां' भवनवासिनाम्, इयं च सामान्योक्तावप्युत्तरनिकायाधिपस्य बलेरेवावगन्तव्या, दक्षिणनिकाये त्विन्द्रस्यापि सागरोपममेव, उक्तं हि - " चमरबलि सारंमहियं" "सेसाणं'ति, जघन्येन दशवर्षसहस्राणि प्रमाणमस्या दशवर्षसहस्रिका, इयमपि सामान्योक्तावपि किल्विषिकाणामेव स्थितिः, स्थितिप्रभावादीनां देवेषु सहैव ह्रासादिति, उत्तरत्रापि भावनीयम् ।
२८७
तथा पल्योपमं वर्षलक्षाधिकमिति ज्योतिषामुत्कृष्टस्थित्यभिधानं चन्द्रोपेक्षं, सूर्यस्य तु वर्षसहस्राधिकं पल्योपममायुः, ग्रहाणां तदेव अ (न) तरिक्तं, नक्षत्राणां तस्यैवार्द्ध, तारकाणां तच्चतुर्भागः तथा पल्योपमाष्टभागो ज्योतिष्षु जघन्यस्थितिरित्यपि तारकापेक्षमेव, शेषाणां पल्योपमचतुर्भागस्यैव जघन्यस्थितित्वात्, यत उक्तं 'चतुर्भागः शेषाणा' मिति ! इह च सर्वत्रोक्तरूपयोरुत्कृष्टजघन्यस्थित्योरपान्तरालवर्त्तिनी मध्यमां स्थितिरिति द्रष्टव्यम् ।
तथा 'प्रथमे' इति प्रक्रमाद् ग्रैवेयकेऽधस्तनाधतने, एवं द्वितीयादिष्वपि ग्रैवेयक इति सम्बन्धनीयम्। अविद्यमानं जघन्यमिति - जघन्यत्वमस्यामित्यजघन्या तथा अविद्यमानमुत्कृष्टमित्युत्कृष्टत्वमस्यामित्यनुत्कृष्टा जघन्या चासावनुत्कृष्टा चाजघन्यानुत्कृष्टा, मकारोऽलाक्षणिकः, महच्च तदायुः स्थित्याद्यपेक्षया विमानं च महाविमानं तच्च तत्सर्वे - निरवशेषा अर्ध्यमानत्वादर्था:-अनुत्तरसुखादयो यस्मिंस्त (तथा तच्च त) त्सर्वार्थं च महाविमानसर्वार्थं तस्मिन्, स्थितिरिति सर्वत्रायुःस्थितिरेव, कायस्थितित्वाभिधाने तत्रानन्तरमनुत्पत्तिरेवेत्यभिप्राय इति सप्तविंशतिसूत्रार्थः ॥
मू. ( १७०९ )
अनंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । विजढंमि सए काए, देवाणं हुज्ज अंतरं ॥ एएसि वन्नओ चेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाई सहस्ससो ॥
मू. ( १७१० )
वृ. अन्तरविधानाभिधायि च सूत्रद्वयं पूर्ववद्याख्येयम् ॥ इत्थं जीवानजीवांश्च सविस्तरमुपदर्श्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316