Book Title: Agam Suttani Satikam Part 29 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
अध्ययन-३६,[ नि.५५९]
२८९ मासद्धमासिएणं तु, आहारेणं तवं चरे॥ वृ. बारसेत्यादि सूत्रपञ्चकम् । द्वादशैव न तु न्यूनान्यधिकानि वा 'तुः' पूरणे 'वर्षाणि' संवत्सरान् संलेखनं-द्रष्यतः शरीरस्य भावतः कषायाणां कृशताऽऽपादनं संलेखा, संलेखनेति योऽर्थः, 'उक्कोसिय'त्ति उत्कृष्टा सर्वगुर्वी भवेत्, ‘संवच्छरं'ति संवत्सरं-वर्षं मध्यमैव मध्यमिका, षण्मासान् ‘च:' पुनर्थे भिन्नक्रमस्ततो जघन्यैव जघन्यिका पुनः, पठन्ति च'उक्कोसिया' इत्यत्र 'उक्कोसतो'त्ति, अन्यत्र तु 'मज्झिमउत्ति जहन्नतो'त्ति।।
इत्थं संलेखनायास्त्रैविध्ये उत्कृष्टायाः क्रमयोगमाह-'प्रथमे' आद्ये 'वर्षचतुष्के' संवत्सरचतुष्टये वर्तनं वृत्तिनियूहनमनु (णं तत्) कुर्यात्, पठ्यते च-'विगईनिज्जूहणं करे'त्ति स्पष्टम् इदं च विचित्रतपसः पारणके, यदाह निशीथचूर्णिकृत्___ 'अन्ने चत्तारिवरिसे विचित्तं तवं काउं आयंबिलेण पारेइ निव्विएण वा पारेइ"त्ति, केवलमनेन नियुक्तिकृता च द्वितीये वर्षचतुष्टये एतदुक्तम्, अत्र च सूत्रे प्रथमे दृश्यत इत्युभयथापि करणे दोषाभावमनुमीमहे, तयोरस्य च प्रमाणभूतत्वात्, द्वितीये वर्षचतुष्के विचित्रंतु' इति विचित्रमेव चतुर्थषष्ठाष्टमादिरूपं तपश्चरेत्, अत्र च पारणके सम्प्रदाय:-"उग्गमविसुद्धं सव्वं कप्पणिज्जं पारेति"त्ति।
एकेन-चतुर्थलक्षणेन तपसाऽन्तरं-व्यवधानं यस्मिस्तदेकान्तरम् 'आयामम्' आचाम्लं 'कट्ट'त्ति कृत्वा संवत्सरौ द्वौ, 'ततः' तदनन्तरं 'संवत्सरार्द्ध मासषट्कं 'तुः' पूरणे 'न' नैव 'अतिविकृष्टम्' अष्टमद्वादशादि तपः 'चरेत्' आसेवेत्।।
ततः 'संवत्सरार्द्धं पुनः षण्मासलक्षणं 'विकृष्टम्' उक्तरूपं 'तुः' एवकारार्थो विकष्टमेव तपश्चरेत्, अत्रैव विशेषमाह-'परिमियं चेव'त्ति, 'च:' पूरणे ततः परिमितमेव, द्वादशे हि वर्षे कोटीसहितमायामम्, इह तु चतुर्थादिपारणक एवेत्येवमुक्तम्, आयाम-आचाम्लं तस्मिन्ननन्तरं द्विधा विभज्योपदर्शिते संवत्सरे कुर्यात्, पठन्ति च
• "परिमियं चेव आयामं, गुणुक्कस्सं मुनीचरे।
तत्तो संवच्छरद्धऽन्नं, विगिटुं तु तवं चरे॥" इत्थमेकादशसु वर्षेष्वतिक्रान्तेषु द्वादशे वर्षे किमसौ विदध्यात्? इत्याह-कौट्यौ-अग्रे प्रत्याख्यानाद्यन्तकोणरूपे सहिते-मलिते यस्मिस्तत्कोटीसहितं, किमुक्तं भवति?-विवक्षितदिने प्रातराचाम्लं प्रत्याख्याय तच्चाहोरात्रं प्रतिपाल्यं, पुनद्वितीयेऽह्नि आचाम्लमेव प्रत्याचष्टे, ततो द्वितीयस्यारम्भकोटिराद्यस्य तु पर्यन्तकोटिरुभे अपि मिलिते भवत इति तत्कोटीसहितमुच्यते, अन्ये त्वाहुः-आचाम्लमेकस्मिन् दिने कृत्वा द्वितीयदिने च तपोऽन्तरमनष्ठाय पुनस्तृतीयदिन आचाम्लमेव कुर्वतः कोटीसहितमुच्यते, उभयार्थसंवादिनी चेयं गाथा
- "पट्ठवणओ य दिवसो पच्चक्खाणस्स निट्ठवणओ य।
. जहियं समिति दुन्नि उ तं भन्नइ कोडिसहियं तु॥" इत्थमुक्तरूपंकोटीसहितमाचामाम्लं कृत्वा 'संवत्सरे' वर्षे प्रक्रमाद्वादशे 'मुनिः' साधुः 'मास'त्ति सूत्रत्वान्मासं भूतो मासिकस्तेनैवमार्द्धमासिकेन आहारेण'न्ति, उपलक्षणत्वादाहार29/19]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316